SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ स श्रेयसे स्ताद् शुरुनेमिसूरिः मुनिरत्नकीर्तिविजयः यस्य प्रसादात् सकलापि सम्पत्, सम्पद्यते सिद्ध्यति चाडप्यभीष्टम् । कलौ हि साक्षात् सुरवृक्षतुल्यः, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥१॥ नामाऽपि मत्रायत एव यस्य, विपत्क्षयायाऽथ च चित्तशुद्ध्यै । सद्ब्रह्मतेजोमयमूर्तिमान् यः, स श्रेयसे स्ताद् गुरुनेमिसूरि: રો यस्याऽऽशिषा मन्दधियोऽपि कामं, विद्वत्सु मान्याः सुधियो भवन्ति । ज्ञानप्रकाशं विदधद् मुनीन्दुः, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥३॥ यदृष्टिपातोडप्यभयाय तेषां, ये नीयमानाः पशवो वधाय । अनन्यकारुण्यपरीतचेताः, स श्रेयसे स्ताद् गुरुनेमिसूरिः જો प्राणान् पणीकृत्य य उद्दधार, तीर्थानि कष्टानि विषा चाऽपि । बोधिं व्यधत्ताऽतितमां विशुद्धां, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥५॥ रहस्यपूर्णामपि लुप्तप्रायां, प्राणप्रतिष्ठादिपरम्परां च । विस्फूर्तसत्त्वो [दजीवयद् यः, स श्रेयसे स्ताद् गुरुनेमिसूरिः । ॥६॥ सम्प्रेक्ष्य यस्य प्रतिभामनन्यां, भवन्ति मुग्धाः सुधियः समेऽपि । युगप्रधानाभप्रतापशाली, स श्रेयसे स्ताद् गुरुनेमिसूरिः છો धैर्य धरित्र्या धरणीधरस्य, स्थैर्यं समुद्रस्य च गम्भीरत्वम् । कालस्य ताटस्थ्यमथो तटिन्या, निर्बन्धता व्योममणेः प्रतापः सत्त्वं मृगेन्द्रस्य विधोश्च कान्ति-निर्लेपता पद्मदलस्य चाऽपि । निःसङ्गता गन्धवहस्य यस्मिन्, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥॥ युग्मम् ॥ स श्रेयसे स्ताद् गुरुनेमिसूरिः | १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy