________________
अस्मद्गुरुम् डॉ. वासुदेव वि. पाठक: ‘वागर्थः'
करुणाकरं शान्तिप्रदं, पापादिहं जन-शं-करम् । सद्बुद्धिदं श्रेयस्कर-मस्मद्गुरुं प्रणता वयम् ॥ अस्मद्गुरुं त्रिजगद्गुरुं, विज्ञानदं संज्ञानदम् । भक्त्या यदेवाऽपेक्षितं, तत्सर्वदं प्रणता वयम् ॥ प्रणवात्मकं परमात्मकं, ब्रह्मेन्द्रविष्णुशिवात्मकम् । प्रणता वयं विश्वात्मकं, परमं शरण्यं सद्गुरुम् ॥ हिंसादिकाद् विनिवारकं, प्रीतिप्रदं ननु वत्सलम् । शिष्याय सर्वोत्कर्षदं, सज्जीवनाय नुमः परम् ॥ गुरोस्सत्प्रसादात् शिवा सन्मतिः स्यात् । शिवे सदतिः स्यात् सदोज़ गतिः स्यात् ॥
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org