SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ शुद्धं चित्तं शुद्धं वित्तं, सरलं सज्जीवनं विशुद्धम् । भद्रा वाणी, पाणी कार्ये सद्देशिक ! नत्वा संयाचे ॥७॥ गुरवः गौरवाढ्याश्च गौरवं गुरुसेवया । गुरुभ्यो गौरवं प्राप्यं, गुरुत्वं किं गुरुं विना ॥८॥ प्रपन्नेभ्यश्च शिष्येभ्यः सर्वज्ञानमयो गुरुः । ज्ञानं दत्वा परां शान्ति दिशत्येव; गुरुं नुमः ॥॥ यस्याऽऽज्ञया कार्यमहं करोमि, स एव विश्वस्य विकासहेतुः । चित्ते समेषां निवसन्सदैव, यः प्रेरकः स च गुरुर्वदान्यः ॥१०॥ स्वस्थं दीर्घ नरायुश्च सुखसमृद्धिदं परम् । आशीभिर्देशिकानां हि उद्-यानं जीवने वरम् ॥११॥ दक्षिणतश्चोत्तपर्यन्तम्, अखण्डभारतराष्ट्रकल्पनम् । एवं कृत्वा राष्ट्रगौरवं, भजे मुदा वैश्विकान् देशिकान् ॥१२॥ वर्णद्वयेन वैशिष्ट्यं गुरुपदे समन्वितम् । प्रथमे तु गुणोत्कर्षः ऋजुतैवाऽपरेण च ॥१३॥ सत्यं यत्परमं मुदाऽऽत्मनिरतैर्भद्रं यहोवात्मकमर्हन्-बुद्धमयं शिवं गुरुवरैर्नित्यं यहुर्मज्द वा । सत्-नामेति नु राध्यते सुमनसैः ह्यल्लाह ताओ इति, तत्त्वं तद् विदधातु शान्तिमतुलां तुष्टिं च पुष्टिं शुभाम् ॥१४॥ उदितः सूर्यः अज्ञानान्धनाशाय सद्गुरुवर्यः ॥ (हाइकु) गुरुणा शिष्यगौरवम् । | ५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy