SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ उपस्थापनम् नवदीक्षितानां साधु-साध्वीनामुपस्थापन - योगोद्वहनादिकृत्यानि कथं कारणीयानि ? इति . प्रश्नस्तपागच्छाधिराजश्रीमुक्तिविजय (मूलचन्दजी) महाराजे दिवं गते सत्युपस्थितोऽभूत् । बहुविधविचाराणामन्ते च श्रीवृद्धिचन्द्रमहाराजः सूचितवान् यदिदानीं त्वहम्मदाबादनगरे लवारपोळमध्ये स्थितस्य पन्यास श्रीप्रतापविजयमहाराजस्य सान्निध्ये एतत्सर्वमपि कार्यं सम्पादनीयमिति । एवं च गुरुभगवत आदेशानुसारं मुनिश्रीनेमविजयोऽप्यन्यैर्मुनिवरैः सह राजनगरं गतवान् । तत्र च तस्य योगोद्वहनपूर्वकमुपस्थापनकृत्यं सानन्दं सम्पन्नं जातम् । तदनु च तत्रैव राजनगरे कियत्कालं स्थित्वा सिद्धान्तकौमुदीव्याकरणस्याऽवशिष्टभागस्याऽध्ययनं पूर्णं कृतवान् । एवं च गुरुभगवतो मनोऽभिलषितं पूर्णं कृत्वा पुनस्तत्सान्निध्ये भावनगरं प्राप्तवान् । गुरुवरोऽपि प्रसन्नः सन् तमाशिषाऽनुगृहीतवांश्च । गुरुभगवत: स्वास्थ्यं तु प्रतिकूलमासीत् । अत आदिनमारात्रि च तत्प्रतिच्छायमिव भूत्वा स शुश्रूषां करोति स्म । अध्ययनकार्यं तु तदाऽपि प्रवर्तमानमेवाऽऽसीत् । चतुर्मासीद्वयं तु तत्रैव भावनगरे व्यतीतम् । अत्रान्तरे च पूज्यदानविजयमहाराजोऽपि तत्र गुरुभगवतः स्वास्थ्यवार्तां प्रष्टुमागत आसीत् । तदा च स सर्वेषां साधूनां सूक्ष्मक्षिकया सर्वं निरीक्षितवानासीत् । मुनिप्रवरस्य नेमविजयस्य ज्ञान-क्रियारुचि - चारित्र - विनयादिगुणैस्तस्य हृदयमावर्जितं जातम् । यथासमयं च स पुन: पादलिप्तपुरं प्राप्तवान् । तत्र च 'अत्र विहरतां साधुसाध्वीनां न्यायव्याकरणादिविषयकोऽभ्यासः सम्यक् स्याद्' इत्याशया 'रायबहादुर बुद्धिसिंहजी जैन संस्कृत पाठशाला' इत्यभिधयैकां पाठशालां स्थापितवान् । पश्चाच्च विज्ञप्तिपत्रमेकं श्रीवृद्धिचन्द्रमहाराजं प्रति प्रेषितवान् – 'यदि नेमविजयोऽप्यत्र समागच्छेत् तदा पाठशालायामध्ययनाध्यापनकार्यं सवेगं सम्यक्तया च प्रचलेद्' इति । पूज्यगुरुवरोऽपि लाभालाभौ विचार्य नेमविजयमहाराजं पादलिप्त पुरं गन्तुमाज्ञप्तवान् । - 'गुरुभगवतः स्वास्थ्यं समीचीनं नाऽस्ति । कथं तं विहायेतो गन्तव्यम् ?' इति संशयितः सन्नपि ‘आज्ञा गुरूणामविचारणीया' इति न्यायेन मुनिवरो गुर्वाज्ञां शिरोधार्यां कृत्वा पादलिप्तपुरं प्रति विहृतवान् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः | ९५ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy