________________
मुनिवरश्रीआनन्दसागरमहाराजस्य विद्याभ्यासः विविधेषु ग्रामनगरादिषु पूज्यो विहरति स्म । यथा यथा परिचयो भवति तथा तथा जनानां पूज्यं प्रत्यादरः प्रवर्धते स्म । पूज्यस्य प्रतिभाऽद्भुता च कार्यशक्तिः समेषामपि हृदये आत्मीयत्वं जनयति स्म । वि.सं. १९५२तमवर्षस्य वर्षावासो 'वढवाण'नगरे सञ्जातः । ततः पूज्यः पादलिप्तपुरं प्रति प्रस्थितः । मार्गे 'लींबडी'ग्रामे मुनिवर्यश्रीआनन्दसागरमहाराजः सम्मीलितः । सोऽपि ततः पूज्येन सहैव विहृतवान् । तदा च मुनिवर्येण तेन पूज्यस्य पार्वे संस्कृतव्याकरणादिविषयकोऽभ्यासोऽपि कृतः । पूज्योऽपि तं प्रसन्नतया सप्रेम च पाठितवान् ।
श्रीस्तम्भतीर्थे-खम्भातनगरे उभावपि पूज्यौ सहैव चतुर्मासी यापितवन्तौ । पर्युषणपर्वणि च कल्पसूत्रान्तर्गतं 'गणधरवाद'विषयकं व्याख्यानमपि सहैव कृतवन्तौ । तत्र च व्याख्याने भगवतो महावीरस्य इन्द्रभूत्याद्येकादशब्राह्मणानां च संवादोऽस्ति । एष एव प्रयोग उभाभ्यामपि पूज्याभ्यां तस्मिन् वर्षे व्याख्याने कृतः - 'श्रीआनन्दसागरमुनिवरो विप्राणां शङ्कां प्रस्तौति स्म पूज्यश्च ताः सतर्कं समादधाति स्म' इति । अपूर्वं किञ्चिदेतद् दृश्यमासीत् ।
तत्राऽपि पूज्यस्योपदेशेन 'श्रीवृद्धिचन्द्रजी जैन संस्कृत पाठशाला' स्थापिता जाता । अस्यां च धार्मिकाभ्यासेन सहैव संस्कृतव्याकरण-कोश-काव्यादीनामपि शिक्षणं दीयमानमासीत् ।
प्रतिवर्षमिवाऽस्मिन् वर्षेऽपि चतुर्मास्यनन्तरं पूज्यस्य सान्निध्ये श्राद्धवर्येण श्रीअमरचन्दमहोदयेन श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घ आयोजितः । तदनन्तरं च पूज्यः पुनः स्तम्भतीर्थमागतवान् ।
अत्रान्तरे च जर्मनाध्यापकः श्रीहर्मनजेकोबीमहोदयो जैनागमस्य श्रीआचाराङ्गसूत्रस्याऽऽङ्ग्लभाषयाऽनुवादं कृतवानासीत् । स चाऽनुवादः प्रकाशितोऽभूदपि । तत्र च 'जैनशास्त्रेषु मांसाहारोऽप्यनुमतोऽस्ति' इति स्पष्टतया प्रतिपादितं तेन । विधानमेतत् पुरस्कृत्य समग्रेऽपि जैनसमाजे कोलाहलः सञ्जातः । पूज्योऽप्येतज्ज्ञात्वा 'मुम्बइसमाचार'नामवृत्तपत्रमाध्यमेन तेनाऽध्यापकेन सह पत्रव्यवहारमपि कृतवान् । अन्ततः श्रीआनन्दसागरमुनिवरेण सह तस्य विधानस्य शास्त्रीयप्रमाणैर्युक्तिभिश्च प्रतिकाररूपेण पूज्यः प्रत्युत्तरं लिखितवान् । स च प्रत्युत्तरः पश्चात् 'परिहार्यमीमांसा' नाम्ना पुस्तकरूपेण प्रकाशितोऽपि जातः ।
चित्रमयो विजयनेमिसूरिः १०३
Jain Education International
For Private & Personal Use Only.
www.jainelibrary.org