SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ मेघगीतम् डॉ. आचार्य रामकिशोर मिश्रः मेघस्त्वां स्नापयितुमागतः बहिरागच्छ पश्य भो ललने ! कृष्णवारिदो गर्जति गगने । किं नाऽऽयासि कथय गजगमने ! अधुना त्वं किं करोषि भवने ? तव प्रेमी बाहू प्रसारयन्, प्रेम्णा त्वामिहप्राप्तुमागतः । मेघस्त्वां स्नापयितुमागतः ॥१॥ शीघ्रमेहि मम पार्वं कान्ते ! मेघच्छविं पश्य दिवसान्ते । मनोरमामपि सन्ध्यां दान्ते ! जयति सर्वथा तव मुखभान्ते । गर्जनध्वनिना निपतन्मेहः प्रेमगीतमिह गातुमागतः । मेघस्त्वां स्नापयितुमागतः ॥२॥ या प्रेमिका करोति न मानम्, कुरुते या पत्ये रतिदानम् । या विदधाति प्रेमरसपानम्, सा प्राप्नोति प्रेमिसम्मानम् । प्रेमितपस्विनि ! तव प्रेमी त्वाम् कष्टसहां निर्मातुमागतः । मेघस्त्वां स्नापयितमागतः ॥३॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र. ५६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy