________________
ज्ञानसाधना 'मम कश्चित् साधुः सिद्धान्तकौमुदीव्याकरणस्याऽध्ययनं कुर्यात्' इति बहुवर्षेभ्यो गुरुभगवतो मनोरथ आसीत् । इङ्गिताकारसम्पन्नो मुनिवरोऽयं गुरुभगवतो मनोरथं ज्ञात्वा तत्पूर्त्यर्थं सङ्कल्पितवान् । तदर्थं च पूज्याय निवेदितवानपि । गुरुवरोऽपि प्रसन्नः सन् राज्यस्य संस्कृतपाठशालायामध्यापयतः श्रीभानुशङ्कराध्यापकस्य व्यवस्थां कृतवान् ।
शुभे चाऽहन्यध्ययनं प्रारब्धम् । ऐकाग्रेणोत्साहेन च मुनिवरः पठने मग्नोऽभवत् । तस्याऽध्ययननिष्ठया पण्डितोऽपि प्रसन्नो जातः । अतः सोऽपि व्याकरणशास्त्रान्तर्गतान् शास्त्रार्थान् परिष्कारांश्च विस्तरतो बोधयति स्म लेखयति स्म चाऽपि । मुनिवरोऽपि प्रज्ञातिशयेन तस्मिन्नेव दिने तत्सर्वमपि कण्ठस्थं कृत्वाऽपरस्मिन् दिने पण्डितवर्यस्य प्रश्नान् सम्यक् समादधाति स्म । एतेन च पण्डितोऽप्याश्चर्यमनुभवन्नासीत्, यतो नाऽद्यपर्यन्तं तेनैतादृशः कोऽपि विद्यार्थी पाठितः ।
____ भानुशङ्करपण्डितोऽयं भावनगरराज्ये सर्वत्र ख्यात आसीत् । तेन सह ज्ञानचर्चा) विभिन्नग्रामनगरादिभ्यः पण्डितजना आगच्छन्त आसन् । तदा च मुनिवरस्य प्रज्ञया निष्ठया च प्रभावितः सन् स तेषां पुरतस्तं प्रशंसते स्म । एकदा भावनगरसत्क एव नाथालालाभिधो जनः काशीं गत्वा विद्याध्ययनं कृत्वा पण्डितश्च भूत्वा पुनरागत आसीत् । सोऽपि पण्डितं मेलितुं गतवान् । तदा वार्तालापमध्ये पण्डितवरो मुनिं प्रशंसितवान् । तच्छ्रुत्वा नाथालाल उवाच - 'मया सह किं स शास्त्रार्थं करिष्यति?' । पण्डितवर्यस्तद्वचनमङ्गीकृतवान् । एवं च शास्त्रार्थो नियतो जातः । पण्डितवर्यो मध्यस्थो जातः । सिद्धान्तकौमुदीमेव विषयीकृत्य शास्त्रार्थः प्रवृत्तः । कियत्कालं तु सर्वं सम्यक् प्रचलितं, पश्चाद् मुनिवरः स्वप्रबलतर्कशक्त्या प्रतिवादिनं निरुत्तरीकृतवान् । अनेन पण्डितवर्यः प्रसन्नो जातः । स्वकृतस्याऽध्यापनस्य तेन सार्थक्यमनुभूतम् ।
अध्ययनेन सहैव मुनिवरोऽन्यांश्च मुनिवरानपि पाठयति स्म । गुरोरादेशानुसारं च स्वसातीर्थ्यं पर्यायज्येष्ठं मुनिराजं श्रीधर्मविजयमहाराजमपि रघुवंशकाव्यपठनं कारयन्नासीत् ।
'कौमुदीव्याकरणाभ्यासो यावन्न पूर्णो भविष्यति तावद् घृतदधिदुग्धतैलादिरहितमेवाऽऽहारं ग्रहीष्यामि' इति सङ्कल्पमपि मुनिराजः कृतवानासीत् ।
चित्रमयो विजयनेमिसूरिः ९३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org