SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सुविहितपरम्पराप्रवर्तकः जैनशासनस्य नाऽऽसीत् तादृशमेकमपि क्षेत्रं यत्र पूज्यस्य प्रदानं न स्यात् । पूज्यस्य हृदये सङ्घप्रीतिः शासनप्रीतिः सुविहितपरम्पराप्रीतिश्चाऽनन्या आसन् । सुविहितमहापुरुषाचीर्णाः शास्त्रनिर्दिष्टा अनेकाः परम्परा आत्मसाधकानि चाऽनुष्ठानानि यानि कालक्रमेण लुप्तप्रायाणि जातानि, तानि सूरिसम्राडेष पुनर्जीवितानि कृतवान्, सङ्घस्य योगक्षेमार्थं प्रवर्तितवांश्चाऽपि । तत्र हि १. अञ्जनशलाकाविधानम् (प्राणप्रतिष्ठाविधानम्) - तात्त्विकमेतदनुष्ठानमाबहुवर्षेभ्यः स्थगितमासीत् । बहुवर्षेभ्यः पूर्वं पादलिप्तपुरे एतद् विधानमनुष्ठितमासीत्, किन्तु केनाऽपि कारणेन तदा तत्र मार्याधुपद्रवः सञ्जातः । तेन च भीताः केऽप्यस्य करणे साहसं नाऽवलम्बन्ते स्म । तदनु च वि.सं. १९८२तमवर्षे चाणस्माग्रामे 'विद्यावाडी'मध्ये नवनिर्मिते जिनालये सर्वप्रथमं पूज्य एतदनुष्ठानमनुष्ठितवान् । निर्विघ्नं च तत् सम्पन्नमपि जातम् । यदा यदा हि पूज्योऽञ्जनविधानेन प्रतिमासु स्वप्राणान् स्थापयति स्म तदा तदा मूर्तेः पुरस्सरं स्थितं पुरुषप्रमाणं दर्पणं तत्क्षणमेव खण्डशो भवति स्म । पूज्यस्य प्रबलसत्त्वमनेन ज्ञाप्यते । २-३. श्रीसिद्धचक्रपूजनं श्रीअर्हन्महापूजनं च - विस्मृतप्रायसञ्जातयोरेतयोः शास्त्रोक्तयोविशिष्टयोश्चाऽनुष्ठानयोः शुद्धविधेः सङ्कलनं प्रवर्तनं च शास्त्राधारेण पूज्येन कृतम् । ४. योगोद्वहनम् - मुनीनामागमशास्त्राभ्यासाय पदग्रहणाय च योगोद्वहनक्रियाऽनिवार्याऽऽसीत्, किन्तु बहुलतया तदनुष्ठानं लुप्तप्रायं वाऽविधिप्रचुरं वा सञ्जातमासीत् । अतः शास्त्रानाधारीकृत्य पूज्य: पुनस्तत् प्रवर्तितवान् । एतादृश्यनेका परम्परा पूज्येन पुनर्जीविता पुनः प्रवर्तिता च । अस्मिश्च युगे पूज्यस्यैतद् बहुमूल्यं प्रदानमस्ति । चित्रमयो विजयनेमिसूरिः ११७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy