________________
'पुत्र ! संस्कृतं पठ निजभाषाम्', 'वत्स ! पठेस्त्वं संस्कृतभाषाम्', 'प्रणम पाणिनि वैयाकरणम्' 'शब्दधातुरूपाण्यवगच्छ', 'हुङ्करु रे सुत ! कथां शृणोषि', 'कुरु सुत ! सम्प्रति समासज्ञानम्' चेत्यादिशीर्षकेषु संस्कृताध्यापनस्य नवा योजना मनो हरतितराम् । यद्यपि कामपि जनश्रुतिमाश्रित्य प्रणीतं महाकाव्यमिदं कविवरस्य डा. मिश्रस्य नितरामपूर्वकाव्यप्रणयनप्रतिभां पदे पदे प्रदर्शयति, सरसतया सुगमतया चाऽभिनवसंस्कृतज्ञान् सजवं समाकर्षति, तथाऽपि यत्र तत्र बाणादीनां महाकवीनां कृतीनां भावानामपि संस्मृतिमुद्बोधयति । अत्र पद्यद्वयं द्रष्टव्यम्
'केशग्रहो नारीणां रतेषु शास्त्रेषु चिन्ता काव्येषु बन्धः । न वर्णसङ्करताऽऽसीत् प्रजासु कामप्रसङ्गे दूतप्रबन्धः ॥ छत्रेषु दण्डाः कम्पा ध्वजेषु गीतेषु रागाः करिमदविकाराः । शशिमा कलङ्का नाऽऽसन् प्रजासु गवाक्षलीना जालप्रकाराः ॥'
___ (वि. १/२२-२३) कानिचन मुद्रणस्खलितानि विहाय समग्रं महाकाव्यं नितरां रम्यतरं हृद्यतरं च विद्यते । एतदर्थं डा. मिश्रमहाभागाः समेषां संस्कृतविदुषां धन्यवादमर्हन्ति । महाकाव्यमिदं सर्वैः सुरभारतीसमुपासकैः काव्यप्रणयिभिश्च संग्राह्यं समास्वाद्यं च ।
जयतु संस्कृतम् ।
१६८
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org