SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जन्ममहोत्सवः वि.सं. १९२९ तमवर्षस्य प्रथमं मङ्गलप्रभातमुद्गतमासीत् । ब्राह्ममुहूर्तसमय आसीत् । नूतनवर्षमिदं सर्वेषां कृते मङ्गलमयं स्यादित्युदाराशया बालकाः “सर्वरसं गृह्णन्तु, सर्वरसं गृह्णन्तु' इत्युद्धोषणं कुर्वन्तो गृहाद् गृहं परिभ्रमन्त आसन् । तच्च प्रदाय सर्वेषां मङ्गलशकुनानि सम्पादयन्त आसन् । समग्रेऽपि वातावरणे नूतनवर्षस्योल्लासः प्रसृत आसीत् । __ एतादृशि मङ्गलमये समये श्रीलक्ष्मीचन्दमहोदयस्य भार्या श्रीमती दीवालिबाई पुत्ररत्नमेकं प्रसूतवती । पुत्रस्याऽस्य तेजस्वि ललाटमुज्ज्वलं भाविकालं सूचयति स्म । एतादृशेन च पुत्रेण जनन्यपि स्वकीयस्य जननीपदस्य सार्थक्यमनुभवन्त्यासीत् । पुत्रजन्मनो वृत्तान्तं सम्प्राप्य सर्वेऽपि स्वजन-प्रातिवेशिकजनाः सत्वरं वर्धापनार्थमागताः । तेभ्यश्च गुड-धान्याकं वितीर्य पुत्रजन्मनो हर्षो व्यक्तीकृतः कुटुम्बेन । पश्चाच्च श्रीलक्ष्मीचन्दमहोदयो मनुष्यसुलभया जिज्ञासया ज्योतिषिकस्य श्रीविष्णुभट्टमहोदयस्याऽन्तिकं गतवान् । तत्र च पुत्रस्य जन्मसमयादिकं सर्वमपि निवेदितवान् । सोऽपि ज्योतिषिकस्तदनुसारं जन्मपत्रं सज्जीकृत्य तत्रत्यां ग्रहादिस्थितिमवलोकयन् स्थितः । अवलोकयतस्तस्याऽऽश्चर्यं वर्धितम् । तस्य परिवर्तमानान् मुखभावान् दृष्ट्वा लक्ष्मीचन्दमहोदयः पृष्टवान् - 'भोः ! किमेतत् सूचयति ?' । ज्योतिषिक उक्तवान् - "भ्रातर् ! नैष कश्चित् सामान्यो बालः । एष हि कश्चिन्महापुरुषो भविष्यति । सांसारिकत्वेनाऽपि यद्येष स्थास्यति तदाऽपि नृपतुल्योऽयं भविष्यति । किन्तु 'कुम्भलग्नीयोऽयं जातकः, अतो 'धर्मधुरन्धरः कोऽप्यनन्यसदृशो महापुरुषो भविष्यति' इति सूचयति ।" । एतच्छ्रुत्वा लक्ष्मीचन्दमहोदयोऽपि प्रमोदभाक् सन् पण्डितवर्याय तस्मै दक्षिणां दत्त्वा गृहं प्रत्यागतवान् । १. सबरस इति लोकभाषायां, लवणमित्यर्थः । २. कुम्भलग्न का पूत, बडा अवधूत, रातदिन करे भजन ! - इत्यक्तिः । ___ चित्रमयो विजयनेमिसूरिः ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy