________________
वैराग्यम् एकस्मिंश्च शुभेऽहनि तरुणो नेमचन्दः पित्रोराशिषं प्राप्य भावनगरं पूज्यगुरुभगवतां सान्निध्यं प्राप्तवान् । 'कस्त्वम् ? कुतश्चाऽऽयातः ?' इति गुरुभगवता पृष्टः स सविनयं स्वकीयं परिचयं दत्तवान् । स्वकीयागमनोद्देशमपि च प्रस्तुतवान् । गुरुवरस्तस्याऽभ्यासादिविषयकान् प्रश्नानपि पृष्टवान् । तस्य सरलता-विनय-विवेकादिगुणैर्गुरुवरोऽपि प्रसन्नोऽभवत् । अन्ततः प्रश्नमेकं कृतवान् - 'भो ! किं प्रयोजनमस्ति तव धार्मिक-संस्कृताद्यभ्यासेन ?' इति । तदा नेमचन्द उक्तवान् ‘भगवन् ! न तादृशं किमपि मया विचारितमद्याऽपि । किन्तु तादृशेनाऽभ्यासेन मम कल्याणमात्महितं चाऽप्यवश्यंभावीति निश्चप्रचम् । तेन च विद्वानपि भविष्यामीत्यन्यो लाभः' इति । तस्यैवंविधोत्तरेण गुरुवरः सन्तुष्टो जातः ।
पश्चात् तस्य वासादिव्यवस्था गुरुभगवता कल्पिता । सोऽपि तत्र निश्चिन्तमुषितवान् । नियततयाऽप्रमत्तः संश्च स गुरुभगवतः पार्वेऽभ्यास-धर्मक्रियादिकं करोति स्म । सहैव गुरुभगवन्निश्रावर्तिनामन्यमुनिभगवतां सेवाशुश्रूषादिकमपि विनयेनोल्लासेन च करोति स्म । एवं च स सर्वेषामपि हृदि स्थानं प्राप्तवान् ।
सततं साधुजनसम्पर्कात् तस्य चित्तमपि वैराग्यप्लावितं जातम् । एकदा रात्रौ स्वकीयापवरके तल्पेऽनिद्रितः शयानः सन् विचारयति- "व्यावहारिकोऽभ्यासो मया कृतः, व्यवसायोऽपि कञ्चित्कालं कृतः, पुनश्चाऽत्राऽप्यभ्यासार्थमागतोऽस्मि । किन्तु किमनेन ? किमस्य पर्यवसानम् ? अन्ततस्तु सर्वमप्यत्रैव विहायैककेन निःसहायेनैवेतो गमनीयं किल ! यद्येवं तर्हि किंप्रयोजनमेतत् सर्वमपि कृत्यम् ? अप्येतादृशं किमप्युत्तमं विधातुं न शक्यं येन मम परकीयस्य च हितं स्यात् ? तादृशः को मार्गः, किं वा तादृशं कर्तव्यम् ?" - इति विचारयतस्तस्य साधुचर्या स्मृतिमुपयाता, यां च स नित्यं पश्यन्नासीत् । 'अहो ! कियन्निर्मलं निर्दोषं च जीवनमेतत् साधूनाम् ? रागद्वेषसुखदुःखादिद्वन्द्वोत्तरेऽस्मिन् जीवने कियान् निरपेक्षो निर्मलश्चाऽऽनन्दः सम्प्रवर्तते? न कस्याऽपि विषये दुश्चिन्तनं दुर्वचनं दुश्चेष्टितं वा करणीयमत्र । स्वार्थं विहाय स्वपरहितमेवाऽस्य जीवनस्य लक्ष्यम् ! एषा जीवनरीतिरेव मयाऽङ्गीकरणीया । एष एवोत्तमो मार्गः' - एवं चिन्तयतस्तस्य चित्ते साधुत्वाङ्गीकारस्य बीजाधानं जातम् ।
चित्रमयो विजयनेमिसूरिः | ८१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org