________________
चित्रमयो विजयनेमिसूरिः
मुनिरत्नकीर्तिविजयः
पूज्यशासनसम्राजां परमगुरुभगवतां श्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणार्धशताब्दीवर्षं (वि.सं. २०५५) निमित्तीकृत्य तेषां पूज्यानां प्रभावकं प्रेरकं च जीवनं विषयीकृत्य कतिपयप्रसङ्गानां चित्राण्यालेखयित्वा पूज्यपादानां जन्मभूमौ श्रीमधुमती(महुवा)नगरे एकं चित्रमन्दिरं निर्मातव्यमिति पूज्यपादगुरुभगवतां श्रीविजयशीलचन्द्रसूरीश्वराणां मनसि कश्चित् सङ्कल्पः समुद्भूत आसीत् । स च सङ्कल्पः परिपूर्णोऽपि जातः । अत्र प्रदत्तानि चित्राणि तु तस्मिन् नवनिर्मिते विशाले चित्रमन्दिरे प्रदर्शितानि सन्ति । तान्येवाऽत्र सपरिचयं प्रदत्तानि सन्ति । एतच्चित्रकर्म तु कृतवानस्ति सूरत-नगरवास्तव्यः श्रीनैनेश-सरैयामहाभागः ।
चित्रमयो विजयनेमिसूरिः ७१
Jain Education International
For Private & Personal Use Only
www.jainelibradar