SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अनेकतीर्थोद्धारकः (१) वलभीपुरम् - 'श्रीदेवर्धिगणिक्षमाश्रमणमहाराजस्य सान्निध्ये नगरेऽस्मिन्नाचार्याणां पञ्चशती मीलिताऽऽसीत् । तदा च लुप्तं जायमाना आगमा अत्र तालपत्रेषु लिपीकृता आसन्-' इत्येतस्येतिहासस्य स्मृतिश्चिरन्तनी यथा स्यात् तथा किञ्चित् स्मारकमत्र करणीयमिति श्रीवृद्धिचन्द्रमहाराजस्याऽभिलाष आसीत् । स्वगुरुभगवतस्तादृशमभिलाषं परिपूर्णं कर्तुं पूज्यस्य सङ्कल्प आसीत् । वलभीपुरस्य ठक्कुरो यदेतज्ज्ञातवान् तदा तदर्थं भूमिं दातुं स्वकीयामिच्छां प्रकटितवान् । किन्तु पूज्यो निःशुल्कं भूमिग्रहणं निषिद्धवान् । क्रीत्वैव भूमिः सम्पादिता । तत्र च श्रीजिनदास-धर्मदाससंस्थामाध्यमेन त्रिभूमिको जिनप्रासादो निर्मितो जातः । तत्रैव च भूमिगृहे पञ्चशताचार्याणां सम्मेलनस्य भव्यं तद् दृश्यं पाषाणे उत्कीर्य स्थापितमस्ति । (२) वामजतीर्थम् - बहुवर्षेभ्यः पूर्वं ततो ग्रामात् श्रीआदीश्वरभगवतः प्रतिमा भूमेः प्रकटिताऽऽसीत् । ग्रामे यद्यपि जैनानां गृहाणि नैवाऽऽसन् किन्तु ग्रामीणानां तत्प्रतिमाविषये दृढा श्रद्धाऽऽसीत् । श्रेष्ठिश्रीसाराभाईमहोदयस्य प्रतिमैषा शेरीसातीर्थं नेतव्येत्यभिलाष आसीत् किन्तु ग्रामजनैः स्वविरोधः प्रदर्शितः । अनन्तरं पूज्यस्तत्राऽऽगतः । 'एष मूर्ति नेतुमागतोऽस्ति' इति भावयन्तो ग्रामजनाः शस्त्रसज्जा भूत्वा समक्षमागताः । किन्तु पूज्यस्तानवबोध्य शान्तान् कृतवान् यद् 'न वयं मूर्ति नेतुमपि तु प्रतिष्ठां कर्तुमागताः स्मः । कुत्र चाऽत्र जिनमन्दिरं करणीयं तदर्थं भूमि निरीक्षितुमागताः स्मः' इति । पश्चात् तत्र जिनभवनं निर्मितं जातम् । (३) महुवानगरम् - पूज्यस्यैषा जन्मभूरासीत् । अत्र च श्रीजीवितस्वामिनो जिनालयस्य समीप एव पूज्यस्य जन्मस्थाने श्रीनेमिनाथस्य श्रीआदिनाथस्य च जिनालयद्वयं निमितं जातम् । (४) मातरतीर्थम् - एतस्मिन् तीर्थे द्विपञ्चाशद्देवकुलिकायुतं भव्यमेकं श्रीसुमतिनाथभगवतो जिनालयो विद्यते । तत्र च देवकुलिका जीर्णा जाता आसन् । तासां जीर्णोद्धारं पूज्योपदेशेन श्रेष्ठिश्रीजमनाभाई-भगुभाईमहोदयः कारितवान् । (५) कदम्बगिरितीर्थम् - (चित्राङ्काः २४-२५-२६ द्रष्टव्याः) चित्रमयो विजयनेमिसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy