SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ शासनसम्राजां परमगुरूणां पूज्याचार्य श्रीविजयनेमिसूरीश्वराणां सूरिपदारोहणशताब्द्यां समर्चना गुरु गुणसङ्कीर्तनम् गूर्जरभाषया गुरुगुणकीर्तनरचयिता : संस्कृतभाषया समपद्यमनुवादकः आचार्यश्रीविजयशीलचन्द्रसूरिः मुनिकल्याणकीर्तिविजयः भूमिका जैनेषु तीर्थकराणां पूजाः पञ्चोपचाराऽष्टोपचारा, सप्तदशोपचारैकविंशत्युपचारा यावदष्टोत्तरशतोपचाराऽपि भवन्ति । एवं गुरूणामप्यष्टप्रकाराद्याः पूजा: भवन्ति । तासु पूजासु गीयमानो गीतिसमूहोऽप्यभेदोपचारात् पूजा एव कथ्यते । किञ्चैतासु गीतिषूपयुज्यमाना गानपद्धति: (रागः) प्राचीना गूर्जरदेशीया महाराष्ट्रदेशीया मरुदेशीया वा भवति । क्वचित् शास्त्रीयरागा अपि प्रयुज्यन्ते । अथ च मम पूज्यगुरुवर्यैराचार्य श्रीविजयशीलचन्द्रसूरिभि: प्रायो वर्षचतुष्टयात् प्राक् चेन्नईनगरे वर्षावासकाले परमगुरूणां शासनसम्राजां पूज्याचार्य श्रीविजयनेमिसूरीश्वराणां भक्त्यर्थं गुरुगुणकीर्तन - नाम्नाऽष्टप्रकारा पूजा गूर्जरभाषया विरचिताऽऽसीत् । मुद्रणं प्राप्तैषा पूजा गुरुभक्तेषु बहु प्रचारं प्रसारं च प्राप्ता । इतश्चैतद् वर्षं शासनसम्राजां सूरिपदारोहणशताब्धा वर्षमिति मयाऽपि गुरुभक्तिनिमित्तं किञ्चित् कर्तव्यमिति विचार्य पूजाया अस्या एव संस्कृतभाषया समपद्यमनुवादः कर्तव्यः - इति मनसिकृत्य प्रवृत्तं, परमगुरूणां गुरुवर्याणां चाऽनुग्रहेण साफल्यमपि प्राप्तम् । अत्राऽनुवादे गीतिषु सर्वत्र गूर्जरभाषीय - पूजास्था गानपद्धतय एवाऽऽश्रिताः सन्ति । दोधकवृत्तानां च स्थानेऽनुष्टुब्वृत्तं (काव्यं) समाश्रितमस्ति । क्वचिच्च सङ्क्षेपोऽपि कृतोऽस्ति । अपि चैतद् गूर्जरं गुरुगुणकीर्तनं संस्कृतभाषयाऽनूदितमस्तीति तस्याऽभिधानं गुरुगुणसङ्कीर्तनम् इति कृतमस्ति । ( अनुवादकः ) २४ शासनसम्राड् - विशेष: Jain Exuearch Internationa For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy