SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ गुरुगुणसङ्कीर्तनम् प्रथमा जलपूजा श्रीशड्डेश्वरपार्श्वेशं नमामि सुखदं सदा । यन्नामस्मृतिमात्रेणोपशाम्येद् विघ्नपावकः ॥१॥ नमस्यामि बुधाराध्यां पावनां श्रुतदेवताम् । यत्प्रसादेन मूोऽपि मुखरत्वमवाप्नुयात् ॥२॥ वात्सल्यवारिधिं सौम्यं गुरुं वन्दे त्रिधा मुदा । यत्कृपालेशमालिए जडः सत्स्फूर्तिमान् भवेत् ॥३॥ जैनशासनसाम्राज्ये विक्रमाद् विंशके शते । आविर्भूतो नवो राजा नेमिसूरिर्गणाधिपः ॥४॥ तपागच्छाधिपत्यं योऽधारयत् सङ्घनेतृताम् । भवभीरोर्गुरोस्तस्य पादपद्मे प्रणौम्यहम् ॥५॥ अप्रमेयान् गुणांस्तस्य गातुमिच्छामि भक्तितः । लब्धोऽद्याऽवसरो वो ह्यगण्यपुण्यराशितः ॥६॥ यथा भावजिनेन्द्रस्य नवाङ्गयां न हि पूजनम् । भावाचार्यस्य सुगुरोस्तथा नैवाऽङ्गपूजनम् ॥७॥ वस्त्रपात्रादिभिर्नूनं भावसद्गुरुपूजनम् । स्थापनागुरुपूजा तु प्रकारैरष्टभिः किल ॥८॥ जल-चन्दन-पुष्पैश्च धूप-दीपाक्षताशनैः । फलैश्चेत्यष्टधा पूजा रच्यते स्थापनागुरोः ॥९॥ एषा नैमित्तिकी पूजा विधेया नैव प्रत्यहम् । वास-धूप-प्रदीपैश्च गुरुमूर्तिं समर्चयेत् ॥१०॥ गुरुमूर्ती ततः कृत्वा सुगुरोः स्थापनं मुदा । अष्टधापूजनव्याजात् गुणलेशं स्तवीम्यहम् ॥११॥ गुरुगुणसङ्कीर्तनम् । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy