________________
गीतिः
(रागः भैरवः) स्तौमि नेमिसूरिमहाराजम्, वीरजिनेश्वरशासननभसि नव्योदितदिनराजम्..... निर्मलसंयमि-पञ्चमगणधरसन्ताने सञ्जातः । जगच्चन्द्रसूरिर्यन्नाम्ना तपगच्छो विख्यातः
॥१॥ स्तौमि.... तदीयान्वये हीरविजयगुरु-देव-सिंहसूरीशाः । तपःपूतकाया व्रतनिष्ठा निर्मलबोधयतीशाः
॥२॥ स्तौमि.... जविंशशतके तत्पट्टे बुद्धि-वृद्धिविजयाख्यौ । ढुण्ढकमतमथ हित्वा जातौ दृढसंविग्नमती यौ ॥३॥ स्तौमि.... तस्य पट्टपूर्वाचलशिखरे रविरिव जगदुद्योतः । विजयनेमिसूरिरिह जातः सकलशुभानां स्रोतः
॥४॥ स्तौमि.... सौराष्ट्रे मधुपुरवरनगरे वर्षाद्यदिने प्रातः । निधि-लोचन-निधि-चन्द्र(१९२९)वत्सरे जातो महसां व्रातः ॥५॥ स्तौमि.... दीवाली तज्जननी ख्याता, लक्ष्मीचन्द्र इति तातः । विनयवांश्च कुशलस्तत्तनयो नेमचन्द्र आख्यातः ॥६॥ स्तौमि.... बाण-वेद-निधि-विधुमित(१९४५)संवति ज्येष्ठशुक्लसप्तम्याम् ।। वृद्धिविजयगुरुपार्श्वे दीक्षां प्राप्तवान् स बहु रम्याम् ॥७॥ स्तौमि.... नेमिविजय इत्यभिधां प्राप्य ज्ञान-तपो-व्रतलीनः । ख-रस-नन्द-शशधरमित(१९६०)वर्षे गणि-पण्डितपदपीनः ॥८॥ स्तौमि.... वेद-रसाम्बर-विधुमित(१९६०)वर्षे भावनगरपुरि जातः । सूरीणां प्रथमोऽस्मिन् शतके विहितयोगसङ्घातः ॥॥ स्तौमि.... सकलमतिक्रान्तं तस्याऽऽयु: शासनसङ्ग्रहितार्थम् । ज्ञानार्जन-पाठन-नवसर्जन-तीर्थोद्धति-रक्षार्थम्
॥१०॥ स्तौमि....
२६ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org