SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कदम्बगिरितीर्थस्य पुनरुद्धारः - २ विंशतिर्वर्षाणि व्यतीतानि । चितेषु भूभागेषु किमपि कार्यं न जातम् । अतः प्रथम तावदेको जिनालयो ग्राम एव निर्मातव्य इति निर्णीतवान् पूज्यपादः । . पर्वतस्य तलहट्टिकायां स्थित ग्रामं 'बोदानानेस' नामाऽऽसीत् । तत्रस्थस्तीताकोलीनामको ग्रामीणः स्वप्नमेकं दृष्ट्वान् – 'अनावृता काचिद् भूमिरस्ति । ततश्च जैनानां तीर्थङ्करस्य मूर्तिः प्रकटिताऽस्ति । तत्समीपे च दीपः प्रज्वलति' इति । प्रातरुत्थाय स दृष्टवान् यत् तस्य गृहस्य समीपवर्तिन्यामेव भूमौ कुङ्कमस्यैकं वर्तुलं घृतस्य चिह्नानि चाऽपि सन्ति । पूज्यपादस्तामेव भूमि योग्यमूल्येन भूस्वामिनः सकाशात् क्राययित्वा जिनालयस्य निर्माणं प्रारम्भितवान् । एकदा, वि.सं. १९८९तमवर्षस्य पोषकृष्णनवमीदिने प्राय एकादशवादनसमये पूज्यः स्वासनादुत्थाय प्रघणमागतवान् । एकत्र च वासक्षेपं कृत्वा श्राद्धमेकमुक्तवान् - 'कामदार ! संस्थायाः स्थानमत्रैव करणीयम्' इति । तत्क्षणमेव तत्र 'श्रीजिनदासधर्मदास-संस्था' स्थापिता जाता । नवनिर्मिते जिनालये प्रतिष्ठार्थं श्रीनमिनाथभगवतः प्रतिमा राजनगरादानीताऽऽसीत् । किन्तु कारणवशात् तत्र श्रीमहावीरस्वामिनः प्रतिमायाः प्रतिष्ठा निर्णीता । अतः श्रीनमिनाथस्य प्रतिमाया गर्भगृहादुत्थापनार्थं सर्वेऽपि गताः । किन्तु भूरिपरिश्रमानन्तरमपि प्रतिमा स्वस्थानात् तुषमात्रमपि न चलिता । अन्ततः पूज्यपाद आगतः । पूज्यस्तत्र प्रतिमायाः पुरतः श्रीफलमेकं ढौकयितुं निर्दिष्टवान् । पश्चात् प्रार्थनं कृतवान् – 'भगवन् ! आगम्यताम् । भगवन् ! अनुजानातु प्रसीदतु च । अत्र कदम्बगिरितीर्थ एव जिनालयं निर्माप्य मूलनायकत्वेन भवन्तं प्रतिष्ठापयिष्यामः' इति । तत्क्षणमेव च भगवतो मूर्तिर्द्वयोर्जनयोरेव हस्तेष्वागता । वि.सं. १९८९तमवर्षे फाल्गुनशुक्लतृतीयातिथौ श्रीमहावीरस्वामिबिम्बस्य प्राणप्रतिष्ठा सञ्जाता । अस्मिश्च प्रतिष्ठामहोत्सवे पञ्चविंशतिसहस्रं जनाः सम्मीलिता बभूवुः । प्रतिष्ठायाः पूर्वरात्रे प्रचण्डो वातोपद्रवः सञ्जातः । पटमण्डपानि विच्छिन्नानि जातानि । बहवो जना रोगातङ्किता जाताः । पूज्येन पृष्टः श्रीउदयसूरिमहाराज उक्तवान् यत् 'प्रातः पञ्चवादनसमयेऽपरोऽप्येतादृशो योगोऽस्ति' इति । अतो जनाः सज्जा जागरूकाश्च कारिताः । पूज्यस्याऽऽदेशानुसारं श्रीउदयसूरिमहाराजः श्रीनन्दनसूरिमहाराजश्चाऽऽरात्रि जिनालय उपविश्य विशिष्टं मन्त्रजापं कृतवन्तौ । एतेन, प्रातर्वातोपद्रवस्तु यद्यपि सञ्जात एव किन्तु कामपि हानिमकृत्वैव शान्तो जातः । प्रतिष्ठामहोत्सवोऽपि सानन्दं सम्पन्नो जातः । एतस्मिश्चाऽवसरे पर्वतोपरि स्थिते भूभागेऽपि निर्माणकार्यमारब्धम् । चित्रमयो विजयनेमिसूरिः | १२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy