________________
गुर्जरभाषया विरचितानि तु गाथासहस्राणि सन्ति ।
प्रवर्तकमुनिश्रीयशोविजया: जन्मना गोपालकानामेतेषां ज्ञानसम्पद् नितरां विस्मयावहा । श्रामण्यात् पूर्वं गाथासप्तकमात्रस्य नामस्तवस्य कण्ठस्थीकरणे मासषट्कं निर्गमितवतामेषां प्रव्रज्यानन्तरं परमगुरूणां श्रीनेमिसूरिभगवतामाशिषा तावान् प्रज्ञातिशय आविर्भूतो यद् विद्वद्भिः सह कस्मिन्नपि विषये संस्कृतपद्यैरेव सम्भाषणं कर्तुं क्षमा जाता: । दौर्भाग्यादेतेषामिहलीलाऽतिशीघ्रं समाप्ता । परं तावत्यत्यल्पेऽपि काले एतैर्विरचितानि स्तुतिकल्पलतादिग्रन्थसत्कानि चित्रकाव्यादिश्लोकशतानि दृष्ट्वाऽनुमातुं शक्यते यदेतेषां दीर्घायुष्कत्वे विद्वत्तायाः फलरूपेण विश्वेन किमलप्स्यत ।
मुनिश्रीरत्नप्रभविजया :- गृहस्थाश्रमे भारतवर्षस्य सर्वप्रथमा होमियोपथीविषये एम्. डी. उपाधिधारकाश्चिकित्सका एते षष्टितमवर्षे प्रव्रज्यां गृहीत्वा, तस्मिन् वयस्यप्यविरतमध्ययनं कृत्वा विश्वाय महन्तमुपहारं दत्तवन्तः - स च Sramana Bhagawan Mahaveera (8 Vol. 2500 pages) इति नाम्नाऽऽङ्ग्लभाषानिबद्धं श्रीवीरप्रभोः सम्पूर्णं जीवनचरित्रम् । तथा आङ्ग्लभाषयैव जैनदर्शनसम्बद्धानन्यानपि ग्रन्थानेते ग्रथितवन्तः ।
अपरं च श्रीविजयदक्षसूरि - श्रीसुमित्रविजय - श्रीगुणविजय - श्रीजयानन्दविजयश्रीशिवानन्दविजय-श्रीप्रतापविजयादयो भूरयो विद्वांसोऽस्यामेव परम्परायां लब्धजन्मानः । एतेऽपि बह्वीनां रचनानां सूत्रधाराः । वस्तुत एतद्वंशजस्यैकैकस्य श्रमणस्य ज्ञानसाधना किञ्चिदपूर्वैवाऽऽसीत् । परं कतमानहं संस्तुयाम् ? कतीनां ग्रन्थरत्नानामुल्लेखं कुर्याम् ? महत: सन्तोषस्य विषयस्त्वेष यदद्यपर्यन्तं सा ज्ञानिपरम्पराऽक्षुण्णा विद्यते ।
-
केचित् पुरोभागिनः कथयेयुर्यत् स्तुतिपरकवाग्विलासो माऽस्तु, वस्तुनिष्ठपरिचयो भवतु । परं ते एव प्रष्टव्या यदमृतस्य कृते 'इदं श्रेष्ठ' मित्यतिरिच्य वास्तविकोऽभिप्रायः किं सम्भवेत् । वस्तुतः परमगुरुभिः कठोरपरिश्रमेण सज्जीकृतानां कुलगौरवीभूतानां श्रमणवरेण्यानां वास्तविकवर्णनेऽपि महाग्रन्था आवश्यकाः । परं केवलं ज्ञानसाधनालेशवर्णनेन मां विरमयत्यात्मप्रशस्त्यकरणरूपाऽस्माकं मर्यादा । अथ चैतस्मिन् परमगुरुसूरिपदशताब्दीवर्षे तेषां चरणयोर्ममैषैव विज्ञप्तिर्यत्तेषामनुग्रहेण तेषामेवाऽयं शिशुः स्वजीवने संरक्षेत् संवर्धयेच्च कुलगौरवंनेमिकुलगौरवम् ।
१६०
शासनसम्राड् - विशेष:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org