________________
कदम्बगिरितीर्थस्य पुरनरुद्धारः - ३ वि.सं. १९९४तमवर्षे पर्वतोपरि 'श्रीऋषभविहारप्रासादः' निर्मितो जातः । अपरश्च 'श्रीगिरनारावतारप्रासादो'ऽपि सज्ज एवाऽऽसीत् । तत्र च प्रतिष्ठामहो निर्णीतः । 'पूज्यः शासनसम्राडञ्जनविधानं करिष्यती'ति कृत्वा ग्रामान्तरेभ्योऽपि श्रावकाः प्रतिमाः प्रेषितवन्तः । संहत्य पञ्चशतं प्रतिमाः सम्मीलिता जाताः ।।
उत्सवः प्रारब्धः । एकस्मिन् दिने सर्वे यदाऽनुष्ठाननिरता आसन् तदा पूज्यो दृष्टवान् यद् गिरनारावतारप्रासादाद् धूम उद्गच्छति - इति । श्रीनन्दनसूरिमहाराजं नीत्वा पूज्यस्तत्र गतवान् । केनाऽपि कारणेन तत्राऽग्निः प्रज्वलित आसीत् । किमपि निर्णीय पूज्यः प्रत्यागतवान् । ठलियाग्रामवास्तव्यान् श्रीहठीचंदमहोदयादिश्रावकानादिश्य शतं श्रीफलान्यानायितवान् । श्रीनन्दनसूरिमहाराजस्य च तत्र करणीयं विधिमवबोध्य विधिकारकेण सह प्रेषितवान् ।
विधिकारकेणाऽन्यैश्चोत्तरसाधकैः पूज्यनन्दनसूरिमहाराजस्तत्र प्राप्तवान् । त्वरितं च शतं श्रीफलानि समानीतानि । पूज्यस्य निर्देशानुसारं श्रीनन्दनसूरिमहाराजः कञ्चिद् विधिं कृतवान् । पश्चाच्चोत्तरसाधकैभरा ह्येकैकं कृत्वा श्रीफलान्याकाशे ऊर्ध्वमुत्क्षेपितानि । तदा च ये तत्रोपस्थिता आसन् तेऽद्य कथयन्ति यद् - नवनवतिः श्रीफलानि तु गगन एव कुत्रचित् तिरोहितानि जातानि । उत्क्षिप्तानि तानि श्रीफलानि भूमौ पुनर्नाऽऽगतानि । केवलं शततमश्रीफलस्याऽर्ध एव भागोऽध आगत आसीत्, इति । एतदनुष्ठाननान्तरमग्निरदृश्यतां गतः ।
एवं गीतार्थमहापुरुषाणां रहस्यमय्याः परम्पराया वाहकः पूज्य आसीदिति प्रसङ्ग एष प्रकटयति ।
तदा हि कदम्बगिरितीर्थस्य पुनरुद्धारकार्यमपि सम्पन्नं जातम् ।
चित्रमयो विजयनेमिसूरिः १२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org