________________
ऐतिहासिकं मुनिसम्मेलनम् कतिपय विषयानधिकृत्य समग्रोऽपि जैनसको विवादग्रस्त आसीत् । केषाञ्चिद् जनानां मताग्रहकारणाद् वातावरणं विक्षुब्धमासीत् । मुम्बईनगरस्य विकृतं वातावरणं श्रीमोतीचंदगिरधरलाल-कापडियामहोदयः पूज्याय सखेदं पत्रेण निवेदितवान् । सर्वेऽपि सङ्घाग्रणीजनाः शासनमान्यपुरुषाश्च कथमपि समाधानं स्यादित्यभिलषमाणा आसन् । तस्य चैक एवोपाय आसीद्-मुनिसम्मेलनमिति। समेषामपि दृष्टिः पूज्योपरि स्थिताऽऽसीत् । पूज्यश्च शासने सर्वोच्चस्थाने विराजमान आसीत् सर्वमान्यश्चाऽप्यासीत् । 'यदि पूज्योऽत्र नेतृत्वं स्वीकुर्यात् तर्हि साफल्यं लभ्येत' इति सर्वेषां मतिरासीत् । एतदर्थं च पुराऽपि श्रीवल्लभसूरिमहाराजादयः पूज्याय विज्ञप्तवन्त आसन् । इदानीमपि राजनगरस्य नगर श्रेष्ठिश्रीकस्तूरभाई मणिभाईश्रीकस्तूरभाईलालभाई-श्रीप्रतापसिंहमोहोलाल-इत्यादयः सर्वेऽप्युपपूज्यं समागत्य सम्मेलनार्थं विचारविनिमयमारब्धवन्तः । परिणामतः सम्मेलनं राजनगरे एव कर्तव्यमिति निर्णयो जातः । तच्च वि.सं. १९९०तमवर्षमासीत् ।
एवं च पूज्यनिर्दिष्टे फाल्गुनशुक्लतृतीयादिने शुभमुहूर्ते च सहस्राधिकसाधुसाध्वीनां सहस्रशश्च श्रावकश्राविकाणां समुपस्थितौ पूज्यशासनसम्राजः सान्निध्ये ऐतिहासिकस्य मुनिसम्मेलनस्य प्रारम्भो जातः । तच्च चतुस्त्रिंशद्दिनानि यावत् प्रवृत्तम् ।
दीर्घदृष्ट्या कृतेन विचारविनिमयेनैकादशविषयानधिकृत्य पट्टकरूपेण प्रस्तावः पारितो जातः । तत्र च पूज्येन सहितैः श्रीआनन्दसागरसूरिमहाराजादिभिर्नवभिर्वृद्धमहापुरुषैः स्वहस्ताक्षरा अपि कृताः । साफल्येन तत् सम्मेलनं परिपूर्णं जातम् ।
चैत्रकृष्णैकादशीदिने च नगरश्रेष्ठिना समग्रस्याऽपि सम्मेलनस्य विस्तृतो वृत्तान्तः सनिर्णयः सभासमक्षं निवेदितः । सर्वैरपि चैतत् साफल्यं सोल्लासं वर्धापितम् ।
चित्रमयो विजयनेमिसूरिः
TO
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org