SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अद्वितीयो यात्रासङ्घः वि.सं. १९९० तमवर्षस्य चतुर्मासीं पूज्यो जावालनगरे यापितवान् । तदनन्तरं च राजनगरात् श्रेष्ठिश्रीमाणेकलाल - मनसुखलालमहोदयस्तत्राऽऽगतः । अहम्मदाबादनगरात् शत्रुञ्जयतीर्थस्य गिरनारतीर्थस्य च पदयात्रासङ्घ पूज्यस्य निश्रायामायोजयितुं तस्याऽभिलाष आसीत् । पूज्यस्तस्य विज्ञप्ति स्वीकृत्य राजनगरं समाजगाम । पदयात्रासङ्घोऽयं 'श्रीमाकुभाई श्रेष्ठिनः सङ्घः' इतिरूपेणेतिहासे चिरञ्जीवी जातः । सङ्घप्रयाणावसरे च शोभायात्रायां भावनगरराज्यस्य मन्त्री श्रीप्रभाशङ्करपट्टणीमहोदयोऽप्युपस्थित आसीत् । अन्येऽपि च राज्याधिकारिण उपस्थिता आसन् । सङ्घयात्राया दर्शनार्थमुपस्थितो जनसम्मर्दस्तु समुच्छलत्कल्लोलः समुद्र इव प्रतिभाति स्म । अस्मिंश्च यात्रासङ्घे श्रीसागरानन्दसूरिमहाराज - श्रीविजयमोहनसूरिमहाराज-श्रीविजयमेघसूरिमहाराजादयः पञ्चसप्तत्यधिकद्विशताधिकाः साधवश्चतुःशताधिकाश्च साध्व्यस्त्रयोदशसहस्रं च यात्रिका आसन् । पञ्चाशदधिकाष्टशतेन शकटैः सह वाहनानां सङ्ख्या प्रायस्त्रयोदशशतमिताऽऽसीत् । अपरे च रजतमयो महेन्द्रध्वजः, रजतमयोऽपि सुवर्णरसितो रथः, रजतमयो मेरुपर्वत:, रजतमयं जिनमन्दिरं, रजतमयपीठाभ्यां च शोभितौ भावनगर - ध्रांगध्राराज्यद्वयसत्कौ द्वौ गजराजौ आसन् । विभिन्नेषु राज्येषु राजभिष्ठकुरैश्च भव्यं स्वागतं क्रियमाणमासीत् । सङ्घस्य दर्शनार्थं हि ग्रामान्तरेभ्यो विपुलप्रमाणा जना आगच्छन्त आसन् । पूज्यस्य पुण्यप्रभावेण सुदुष्करमप्येतत् कार्यं निर्विघ्नं सम्पन्नं जातम् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरि : १३३ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy