SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ गुरुभगवतः स्वर्गमनम् तस्य पादलिप्तपुरगमनेन तत्रत्यायाः पाठशालायाः पठनपाठनप्रवृत्तिर्वेगवती सञ्जाता । तेन च श्रीदानविजयमहाराजः प्रासीदत् । सहैव श्रीदानविजयमहाराजस्याऽन्तिके तस्याऽध्ययनमपि सम्यक् प्रचलदासीत् । गुरुभगवत आज्ञया यद्यपि सोऽत्राऽऽगतस्तथाऽपि गुरुभगवतः स्वास्थ्यविषये सततं चिन्तित आसीत् । इतश्च भावनगरे गुरुभगवतः स्वास्थ्यमधिकतया प्रतिकूलं जातम् । समग्रोऽपि सङ्घ उपस्थितोऽभूत् । यतो भावनगरस्य स धर्मदाता गुरुरासीत्, अत एव च भावनगरवास्तव्यानां कृते तु स सर्वस्व आसीत् । निष्णाताश्चिकित्सका उपचरन्त आसन् । पूज्यमोहनलालमहाराजोऽपि तदा तत्रैवाऽऽसीत् । प्रायः पञ्चाशदधिकाः साधुसाध्वीमहाराजा उपस्थिता आसन् । अस्वस्थतायां सत्यामपि समाधिस्तु काचिदपूर्वाऽऽसीत् । 'अरिहंत-सिद्ध-साहू' इत्यष्टाक्षरमयमन्त्रस्य ध्याने उच्चारणे चैव स लीनो जातः । एवमेव हि पूर्णात्मभावस्थितावेव समाधिभावेन विनश्वरमिदं देहं त्यक्त्वा गुरुवरो दिवं गतवान् । उदन्त एष श्रीसङ्खेन पादलिप्तपुरे प्रेषितः । श्रवणमात्रेणैव मुनिनेमविजयो वज्राहत इव मूढ: शून्यमनस्कश्च जात: । अश्रुधारा प्रावहच्चक्षुषोः । 'गुरुदेवस्याऽन्तिमे समयेऽप्यहमुपस्थितो नाऽऽसम्, पूज्यस्य सेवाऽपि मया न लब्धा' इति विचारस्तस्य हृदि शल्यायते स्म । किन्तु 'कालो हि दुरतिक्रमः' इति सत्यं तु सर्वैरपि स्वीकरणीयमेव भवति, नाऽन्यः कोऽप्युपायोऽत्रास्ति इति विचार्य स कथञ्चिदाश्वस्तो बभूव । मनसि च सङ्कल्पितवान् – 'गुरुदेवसदृशान् गुणान् संसाध्य तेषां जैनशासनोन्नत्यभिलाषं पूरयिष्यामि' इति । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः ९७ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy