SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अष्टमी फलपूजा सेवया शुद्धमार्गस्य प्रोज्ज्वलं जीवनं कृतम् । नापवादलेशोऽपि गुरुभिरादृतः कदा पूर्णरागः प्रवचने शुद्धं च व्रतपालनम् । देशनाऽवितथा चेति गुरूणां गुणसम्पदः एवं गुणसमृद्ध्या हि समृद्धा गुरुपुङ्गवाः । सम्प्राप्ताः स्थविरावस्थां कालो हि सर्वकारणम् ॥३॥ सप्तसप्ततिः सर्वायुर्दीक्षा वर्षे कषष्टिका । चत्वारिंशच्च वर्षाण्येकाधिकानि तु सूरिता मधुमतीपुरे जन्म-भुवि जन्मस्थलान्तिके ।। दीपावल्यां हि विध्यातो दीवालीसुतदीपकः संयमस्य फलत्वेन समाधिः साधितः शुचिः । अन्त्यकाले, त्वतोऽर्चेऽहं सूरीशं फलढौकनात् ॥६॥ गीतिः (रागः प्रीतलडी बंधाणी रे अजित जिणंदशुं । अपूर्व अवसर एवो....) गुरुवर्याणां गौरवगाथा गीयताम् ॥ वार्धक्यं बहु पीडयति गुरुपुङ्गवं दुःखयति व्याधीनां वृन्दमतीव रे । शीघविहारी गुरुरपि हस्तालम्बनं वाञ्छति शिष्यजनानां प्रतिपदमेव रे.... १ ... गुरुवर्याणां... साभ्रमतीपुरि भुवन-ख-खाक्षि(२००३)वत्सरे चातुर्मास्यं गमितं मङ्गलसद्म रे । श्रीसले चाऽऽशीर्वर्षा गुरुभिः कृता तेनाऽस्ति शुभमद्याऽपि निश्छद्म रे ॥.... २ ... गुरु०... विहरणकाले क्षीणतया वपुषो ननु पादन्यासेऽशक्ता गुरवोऽतीव रे । गुरुगुणसङ्कीर्तनम् । ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy