SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तरुणो नेमचन्दः बालो नेमचन्दः स्वभावत एवाऽत्यन्तं नम्रो विवेकी चाऽऽसीत् । किन्तु तत्सहैव निर्भयः साहसिकश्चाऽप्यासीदेव । कस्मिंश्चिदपि विषये सत्यासत्यपरीक्षणार्थं तस्य शक्तिरद्भुताऽऽसीत् । अध्ययनकाले एकः प्रसङ्गो घटितः । तदा स केवलं दशवर्षीय एवाऽऽसीत् । तस्य मातुलस्यैका पुत्र्यासीत् 'पुरीबाई' इति नाम्ना । सा च 'देवताऽपि मम साहाय्यं विदधाति । तत्साहाय्येनाऽहं भूतभविष्यदादिकं सर्वमपि ज्ञातुं प्रभवामि' इति प्रचारं कृतवत्यासीत् । एनं च प्रसारं सत्यं मन्वानास्तत्रत्याः सरला भद्रिकाश्च जनाः स्वस्वसमस्यापरिहारार्थमागच्छन्त आसन् । __ एकदा किञ्चित्कार्यार्थं नेमचन्दस्य तत्राऽऽगमनं जातम् । तत्र प्रवर्त्तमानमिदं कौतुकं तेन दृष्टम् । तेन तु श्रुतमासीदेतत् किन्तु प्रथममेवाऽद्य दृष्टम् । जनानां सम्मर्दस्तत्रैकत्राऽऽसीत् । सर्वेऽपि नालिकेर-नैवेद्यादिकं तस्याः पुरतो ढौकयित्वा स्वस्वप्रश्नान् पृच्छन्त आसन् । साऽपि हि देवतानाम पुरस्कृत्य यद्वा तद्वा प्रत्युत्तरं ददाति स्म । दृश्यमेतद् दृष्ट्वा चतुरो नेमचन्दो ज्ञातवान् यत् सर्वमप्येतत् कापटिकमस्याः । अत्र 'एतस्य कपटकृत्यस्य रहस्यभेदोऽद्य करणीय एव' इति विनिश्चित्य जनसम्मर्दमध्याद् मार्ग कृत्वाऽग्रे गतवान् । उक्तवांश्च- 'भोः ! नाऽहं भूतभविष्यत्कालीनं किमपि ज्ञातुमिच्छामि, केवलं वर्तमानमेव ज्ञातुमिच्छामि । अपि भवती प्रत्युत्तरिष्यति किम् ?' साऽप्यङ्गीकारमुखेन शिरो नामितवती । अतो नेमचन्दः पृष्टवान् - 'कथयतु नाम ममाऽस्यां मुष्टिकायां किमस्ति ?' इति । एतच्छ्रुत्वैव प्रत्युत्तरदानेऽसमर्था सा विक्षुब्धा जाता । तस्याः कपटकृत्यस्य रहस्यमद्य भिन्नं जातमासीत् । जनैरपि सत्यं ज्ञात्वा नेमचन्दः प्रशंसितः । यदा नेमचन्दस्याऽभ्यासः पूर्णोः जातस्तदा स चतुर्दशवर्षदेशीय आसीत् । तस्य पिता तु व्यवसायत्वेन जनानां विभिन्नेषु देशेषु प्रचलितमुष्णीषं बध्नाति स्म । ततः प्राप्तेन धनेन चाऽऽजीविकां निर्वहति स्म । तस्येच्छाऽऽसीद् यद् नेमचन्दोऽपि किमपि वाणिज्यं शिक्षेत् । अतस्तदनुरूपं किमपि कर्तुं नेमचन्दोऽप्यन्वेषणं कृतवान् । स चाऽऽकलनविपणी (Speculation Bazar) गतवान् । तादृशो व्यापारस्तस्मै अरोचत । पितुः सम्मतिं प्राप्याऽनुभवप्रापणार्थं स एकस्यां वाणिज्यसंस्थायां नियुक्तिं प्राप्तवान् । अल्पेनैव च कालेन स तस्मिन् निपुणोऽपि जातः । किन्तु तस्य मनसि चाऽन्यदेव किञ्चित् प्रचलदासीत् । इतोऽपि संस्कृत-धार्मिकाद्यभ्यासार्थं तस्याऽभिलाष आसीत् । अतः पितुः समक्षं स स्वमनोगतं निवेदितवान् । पिताऽपि सन्तुष्टः सन्ननुमतिं दत्तवान्। उक्तवांश्च- 'त्वया ह्येतदर्थं भावनगरं गन्तव्यं भविष्यति । तत्राऽस्माकं गुरुवर्यः श्रीवृद्धिचन्द्रमहाराजो विराजते । स हि पूज्यस्त्वां पाठयिष्यति' इति । एतच्छ्रुत्वा नेमचन्दस्य चित्तं प्रफुल्लितं जातम् । चित्रमयो विजयनेमिसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy