SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ मधुमती (महुवा )नगरस्य विहङ्गावलोकनम् सीमानं प्रक्षालयतः समुद्रस्य भव्यं तीरं, मृगेन्द्राणामावासयोग्यं हरितसमाकुलं घनं वनं, 'सौराष्ट्रसत्ककश्मीर' इति बिरुदं चरितार्थयन्ती पुष्प-पत्र-फलादिखचितानेकसहस्रवृक्षरूपा सौन्दर्यमय मालण'नदीरूपा च सम्पद्, धर्मस्य निर्मलं मङ्गलं च ध्येयं ध्वजव्याजेन समुद्घोषयन्त्यनेकानि मन्दिराणि जैनचैत्यानि च, - इत्यादिभिः सर्वैरपि शोभितं सौराष्ट्रदेशस्य तिलकायमानमिदमस्ति मधुमतीपुरं - महुवानगरम् । यच्च जावडशा-जगडुशादीतिहासप्रसिद्धानां महानुभावानाम्, अमेरिकादेशे शिकागोविश्वधर्मपरिषदि जैनधर्मस्य प्रतिनिधित्वं वहतः श्रीवीरचंदराघवजीगान्धिमहोदयस्य, तथा सूरिसम्राटश्रीविजयनेमिसूरिप्रमुखमहापुरुषाणां च जन्मभूमिरस्ति । (सौराष्ट्रप्रदेशे भावनगरजिलासत्कमिदं नगरमस्ति) चित्रमयो विजयनेमिसूरिः ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy