SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ श्लोक-२ श्लोक-३ श्लोक-४ श्लोक- ५ श्लोक-६ श्लोक-७ श्लोक-८ श्रीनेमिसूरीश्वरराजमुख्य ! पुण्यौघराजाऽथ दिने दिने मे । भूमण्डलेऽवद्य विमुक्त देह ! श्रीवीरभक्तांहसमेव पूज्य ! १६ Jain Education International नेमे ! बुधस्याऽऽप्तभवाब्धिपोत ! पापानि दुःखैकनिबन्धनानि । कल्याणवल्लीसुविताननाब्द ! शश्वद्यशोवृद्धिवितानक ! त्वम् n ॥८॥ भ्वाद्युभयपदिनश्चतेगू याचन इत्यस्य अस्मदर्थैकवचने "चते" इति रूपम् । भ्वादिगणपठितपरस्मैपदिनः अव-रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनाहिंसादहनभासवृद्धिषु इत्यस्य पञ्चमीविभक्त्या: हौ प्रत्यये परे " अव" इति रूपम् । अथवा भ्वादिगणपठितत्वेन डुकंग करणे इत्यस्य पञ्चम्यां हौ प्रत्यये परे "कर" इत्यपि रूपमत्र गुप्तक्रियापदतया बोध्यम् । भ्वादिगणपठितोभयपदिनः श्रिग्-सेवायामित्यस्याऽऽड्यूर्वकस्य पञ्चमीविभक्त्यां हिप्रत्यये परे "आश्रय" इति रूपम् । श्रीमद्धेमचन्द्राचार्योक्तस्य प्रथमाध्यायस्य तृतीयपादपठितेन "अदीर्घाद्विरामैकव्यञ्जने" इत्यनेन असंयुक्तव्यञ्जने यकारे परे द्वित्वं वेदितव्यमत्र । भ्वादिगणपठितपरस्मैपदिनः इं दुं दुं शुं खुं गतौ इत्यस्य पञ्चमीविभक्त्या हौ प्रत्यये परे सम्पूर्वकस्य 'समय' इति रूपमत्र गुप्तक्रियापदतया वेदितव्यम् । भ्वादिगणपठितपरस्मैपदिनः अर्हमह - पूजायाम् इत्यस्य पञ्चम्यां हौ परे मह इति रूपम् । “पतीन्द्रः स्वामिनाथार्यः प्रभुर्भर्त्तेश्वरो विभुः ईशितेनो नायकश्च" इत्यभिधानचिन्तामणिपठितः स्वामिवाचकः इनशब्दो बोध्यः । शासनसम्राड्-विशेष: दिवादिगणपठितपरस्मैपदिनः दों छोंच् छेदने इत्यस्य धातोरवपूर्वकस्य पञ्चम्या विभक्त्या हौ प्रत्यये परे 'अवद्य' इति रूपमत्र वेदितव्यम् । दिवादिगणपठितपरस्मैपदिनः षच् अन्तकर्मणि इत्यस्य धातोः पञ्चम्या विभक्त्या हौ प्रत्यये परे ओतः श्ये इति औकारलोपे कृते 'स्य' इति रूपमत्र । For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy