SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शासनसम्राट मुनिधर्मकीर्तिविजयः अप्रतिहतानन्तज्ञानदर्शनधारिणः श्रीत्रैशलेयप्रभोरस्मिन् जैनधर्मशासननभसि पुष्पदन्तनिभा बहवो महापुरुषा जाताः । यैरप्रतिमप्रतिभया ज्ञानपटुतया विशुद्धसंयमाचरणेन चाऽज्ञानमिथ्यात्वरूपान्धकारं परधर्मिणामाक्रमणमपास्य श्रीमहावीरभगवत्प्रणीतं जैनधर्मशासनं सादरं सगौरवं च रक्षितं संवधितं चाऽद्यावधि । तत्र तपागच्छे सम्राट अकब्बर'प्रतिबोधकजगद्गुरुश्रीहीरसूरीश्वरस्य पट्टपरम्परायां पण्डितश्रीसत्यविजयमुनिवरः सञ्जातः । तस्मिन् काले जिनशासने यतिपरम्परा संवेगिपरम्परा चेति द्वे परम्परे विद्यमाने आस्ताम् । साध्वाचारस्य सम्पूर्णतया पालनं यत्र वर्तते सा संवेगिपरम्परोच्यते । यत्र लेशतः साध्वाचारस्य पालनं वर्तते सा यतिपरम्परोच्यते । तत्र संवेगिपरम्परायां किञ्चित् शैथिल्यं प्रविष्टमासीत् । मुनीश्वरसत्यविजयेन स्वेच्छया कठोरनियमानङ्गीकृत्य यतिपरम्परास्थानां स्वपरम्परास्थानां च शिथिलाचारिमुनीनामुपसर्गेष्वपि संवेगिमार्गः पुनः प्रस्थापितः। अन्येऽपि बहवो मुनिवरास्तस्मिन् मार्गे सम्मीलिताः । तत्पश्चात्तस्यैव पट्टपरम्परायां जातैः 'बुटेरायजी-मूलचन्द्रजी-वृद्धिचन्द्रजीआत्मारामजी'महाराजैः संवेगिपरम्परां प्रवद्धितुं विशेषाः प्रयत्नाः कृताः । ते सर्वेऽपि पूज्यजनाः स्थानकवासिसम्प्रदायस्था आसन् । किन्तु शास्त्राभ्यासेन यदा सत्यं ज्ञातं तदा ते सर्वेऽपि मूर्तिपूजकसम्प्रदायमूररीकर्तुं मुखवस्त्रिकाबन्धनं विहाय पञ्चनद(पञ्जाब)प्रदेशतो निर्गत्य गूर्जरदेशे समागताः । अत्र पुनः संवेगिमार्गानुसारिणी प्रव्रज्या स्वीकृता । पश्चाद् गूर्जरदेशे प्रवर्तमानं १. अस्मिन् सम्प्रदाये सर्वदा मुखे मुखवस्त्रिकाबन्धनविधानं मूर्तिपूजानिषेधश्च वर्तते । शासनसम्राट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy