SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ कापरडातीर्थस्य पुनरुद्धारः क्रमशो विहरन् पूज्यः कापरडातीर्थं प्राप्तवान् । किन्त्वनेकशतवर्षप्राचीनस्य तीर्थस्याऽस्याऽवदशां दृष्ट्वा खिन्नो जातः । तत्रैव तत्समुद्धारार्थं सङ्कल्पितवान् पूज्यः । परं न तत्कार्यं वचनोच्चारणमिव सरलमासीत् । तत्र हि जाटजातीयानां जनानां प्रभुत्वमासीत् । खरतरगच्छीयश्राद्धैः स्वाधिष्ठायकत्वेन स्थापितायाश्चामुण्डादेव्या भैरवदेवस्य च मूर्तेः पुरतस्ते जनाः सुरां ढोकयन्ति स्म । बलिरूपेण च छागवधमपि कुर्वन्त आसन् । एतादृश्यां स्थितौ जीर्णोद्धारस्य कार्यं हि सिंहमुखाद् भक्ष्यमोचनमिव सुदुष्करमासीत् ।। पूज्यः प्रथमं तावद् यात्रिकभवनस्य व्यवस्था स्वायत्तां कारितवान् । नियतरूपेण च पूजादिविधानमपि प्रवर्तितवान् । पश्चाच्च जिनालयस्य जीर्णोद्धारकार्यस्याऽऽरम्भमपि कारितवान्। सत्वरमेव च तत्कार्यमपि सम्पन्नं जातम् । पूज्यस्य प्रभावादद्यपर्यन्तं तु कोऽपि विघ्नो नैवाऽऽयातः । अथ नवनिर्मिते जिनालये जिनबिम्बप्रतिष्ठाया द्वादशदिवसीयो महो निर्णीतो जातः । चामुण्डादेव्या मूर्तेः स्थानान्तरं तु कृतमेवाऽऽसीत् किन्तु भैरवदेवस्य मूर्तिस्त्विदानीमपि तत्रैवाऽऽसीत्। तस्याः स्थानान्तरं विपज्जनकमासीत् । अत्र महोत्सवमध्य एवैको जनस्तत्राऽऽगतवान् । स्वपुत्रस्य च क्षौरकर्माऽपि स तत्र कारितवान् । एतद् दृष्ट्वा पूज्यो व्यचारयत् - 'एतादृशि पवित्रे विधौ प्रवर्तमानेऽपि यद्येवं निर्बन्धा एवैते प्रवर्तन्ते, विधि च दूषयन्ति तर्हि प्रतिष्ठानन्तरं किं नैव करिष्यन्त्येते? अतः किमपि करणीयमेवाऽत्र !' इति । अत्र च महोत्सवनिमित्तमेकत्रभूतं जनसमूहं जैनानां च वर्धमानमाधिपत्यं निरीक्ष्य जाटजातीयाः क्रुद्धा आसन् । तेषां कोपो भस्मावृताग्निवदन्तःप्रज्वलन्नासीत्, किन्त्वारक्षकाणां सुरक्षाकारणात् ते किमपि कर्तुं न प्रभवन्त आसन् । अत्रान्तरे च पूज्यउदयसूरिमहाराजः स्वयमेव साहसमवलम्ब्य भैरवदेवस्य मूर्ति तत उत्पाट्याऽन्यत्र स्थापितवान् । अनेन हि जाटजनानां कोप उद्दीप्तो जातः । मरिष्यामो वा मारयिष्यामो वेति तेषां मतिर्जाता । ___एतादृशि संशयिते वातावरणेऽपि प्रतिष्ठाकार्यं तु सानन्दमेव सम्पन्नं जातम् । द्वारोद्घाटनविधिरवशिष्ट आसीत् । प्रतिष्ठां समाप्य जनाः स्वस्वग्राम प्रति गन्तुमारब्धवन्तः । अवसरमेनं लब्ध्वा जाटजातीया विप्लवं कर्तुमुधुक्ता जाताः । मारणान्तिकोऽयमुपसर्ग आसीत् । किन्तु पूज्योऽन्ये च साधवः, केऽपि विचलिता न जाताः । पूज्यस्य सङ्कल्प आसीद् यत् प्राणान् पणीकृत्याऽपि तीर्थमिदं रक्षणीयमेवेति । अथ च शस्त्रसज्जा जाटजातीया आगताः । कोट्टद्वारं तु पिहितमासीदतस्ते तं भतुमपि प्रायतन्त । केचन तु दुर्गोपरि रज्ज्वादिसहायेनाऽऽरोढुमपि प्रयत्नान् कृतवन्तः । पन्नालालाभिधः श्राद्धो, यः सततं पूज्यस्य निकट एव स्थितः स सशस्त्रं दुर्गोपरि समारूढवान् । स्थितिस्त्वत्यन्तं विकटाऽऽसीत् । कदा किं भविष्यतीति तु निश्चितं नाऽऽसीत् । किन्तु पन्नालाल श्राद्धेन हि पूर्वमेव दूरदर्शितामुपयुज्य जोधपुरराज्यात् साहाय्यं याचितमेवाऽऽसीत्, अतो जाटजना यावदाक्रमणं कुर्युस्तावदेवाऽऽरक्षकदलं समागतम् । गुलिकास्त्रप्रयोगाः प्रारब्धाः । अनयाऽतकितया स्थित्या भीता जाटजना इतस्ततो धावितुं प्रवृत्ताः । सर्वत्र च शान्तिः प्रसृता । द्वितीयदिने द्वारोद्धाटनकार्यमपि सम्पन्न जातम् । एवं च जीर्णोद्धारस्य पूज्यस्य सङ्कल्पः पूर्णो जातः । चित्रमयो विजयनेमिसूरिः १२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy