________________
१४
पयोदनादतर्जिकम्बुकण्ठपेशलध्वनिचमत्कृताखिलाङ्गराजिराजिगीतगौरवम् । निजौजसा हि सज्जनार्दनावलेपलोपिनं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥४॥
Jain Education International
सुदर्शनप्रधानपुरुषोत्तमैकबान्धवं,
प्रकल्प्य कल्पनाकृतं सुखं नु भोगराजिजम् । निधानमादधानमात्मशर्मणां यथास्थितं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥५॥
क्षमाधरं वरं सुवृद्धिमाढ्यतां गतं गतं, ततो दधानमात्मसार्वभौमसम्पदां पदम् । क्षमाभृदुत्तमाङ्गचुम्बिताङ्घ्रिपद्मरेणुकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥६॥
विभाव्य नामगौ नमो च वर्गप्रान्तगावपि, युतौ गुणेन च श्रिया च चक्रिमादिभागगौ । ततोऽमरद्रुकामधेनुकामरलतोऽधिकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥७॥
पदत्रयप्रचारगाञ्च गां मुखाङ्गणं गतां, तथाऽप्यशेषदेशकाललीनभावगामिनीम् । सुधाप्रवाहवाहिनीं वहानमिज्यताभृतं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥८॥
(शार्दूलविक्रीडितवृत्तम्)
देवश्लेषगुरुङ्गमष्टकमिदं गीतं शमालिप्रदं, दक्षाऽभ्यर्थनया प्रणुन्नमनसा भक्त्येकलीनात्मना लावण्येन प्रवर्त्तकेन रचितं पञ्चादिमैश्चामरैः,
श्रोतॄणां पठतां नृणां च शिवदं स्तात् पुष्पदन्तावधि ॥९॥
शासनसम्राड्-विशेष:
For Private & Personal Use Only
www.jainelibrary.org