________________
गणिपद-पन्न्यासपदारोहणम् पूज्यगुरुभगवता श्रीवृद्धिचन्द्रमहाराजेन पूर्वमेव पूज्येऽनन्यसाधारणी प्रतिभा निरीक्षिताऽऽसीत् । सा चाऽद्य षोडशभिः कलाभिः प्रकाशमानाऽऽसीत् । तत्तेजश्च सर्वत्र प्रसृतमासीत् । पूज्यस्यैतद् योग्यत्वं परीक्ष्य पूर्वमेव गुरुभगवता स्वज्येष्ठशिष्यः श्रीगम्भीरविजयमहाराज आदिष्ट आसीद् यद् 'नेमविजयस्य त्वयाऽऽगमयोगा उद्वाह्याः' इति । तदाज्ञामनुसृत्य श्रीगम्भीरविजयमहाराजः पूज्यस्य योगोद्वहनं कारितवान् । वि.सं. १९५९तमे च वर्षे भावनगरे श्रीभगवतीसूत्राभिधागमस्य योगे प्रवेशं कारितवान् । सप्तमासीयं तद्दीर्घ तप आसीत् । चतुर्मास्यनन्तरं सर्वेऽपि विहृत्य वलभीपुरमागतवन्तः । अत्रैव ह्याचार्याणां पञ्चशती सम्मीलिताऽऽसीद् यया च लुप्यमाना आगमग्रन्थाः पुस्तकारूढाः कृता आसन् । एतादृश्यां श्रीदेवधिगणिक्षमाश्रमणादिमहापुरुषाणां पदरजोराजीपवित्रितायामस्यां भूमौ वि.सं. १९६०तमवर्षे कार्तिककृष्णसप्तमीदिवसे श्रीभगवतीसूत्रानुज्ञारूपः श्रीगणिपदप्रदानमहः सञ्जातः । तदनु च मार्गशीर्षशुक्लतृतीयादिने पण्डितपदेनाऽलङ्कृतो जातः पूज्यः ।
पश्चात् तत्रैव पूज्येन मुनिआनन्दसागरमहाराजं स्वगुरुबन्धुं श्रीप्रेमविजयमहाराजं स्वशिष्यं च श्रीसुमतिविजयमहाराजं भगवतीसूत्रस्य योगे प्रवेशः कारितः । ततश्च यथाक्रमं विहृत्य राजनगरं-अहम्मदावादनगरं समागताः सर्वे । तत्र च समहोत्सवं त्रयोऽपि मुनिवरा गणिपन्न्यासपदाभ्यां विभूषिताः कारिताः ।
वि.सं. १९६०तमवर्षस्य चतुर्मासी सर्वैरपि राजनगर एव कृता । चतुर्मास्यनन्तरं च पूज्यस्य प्रेरणया श्रेष्ठिश्रीवाडीलाल-जेठाभाईपरिवारेण श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घस्याऽऽयोजनं कृतम् ।
चित्रमयो विजयनेमिसरिः १०९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org