SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गीतिः गुरुणा नेमिविजय इत्यभिधा दत्ता सादरं रे जननी-तात-कुटुम्बान् सोऽप्यनुकूलितवान् तैरप्याशीर्दत्ता “भवमूलं जहि सत्वरं" रे एष च शास्त्राभ्यासे लीनोऽभून्मतिमान् ॥७॥ दीक्षा.... काव्यम् शाब्दे न्याये स्वसिद्धान्ते पारगोऽभूत् स लीलया । अन्यांश्चाऽध्यापयामास गर्विष्ठानां च गर्वहा ॥८॥ गीतिः स्वगुरोर्वैयावृत्त्ये सावधानमतिको ह्ययं रे त्याग-विराग-तपस्सु च सुतरामुद्यमवान् अनिशं संयमशुद्धाराधननिरतः स स्वयं रे तेन च गुर्वाशींषि नितरामधिगतवान् ॥९॥ दीक्षा.... काव्यम् गुरोः स्वर्गमनोर्ध्वं च सोऽभूद् ज्ञानार्जने रतः । शास्त्रपूतैः प्रवचनैः सर्वत्राऽभूच्च विश्रुतः ॥१०॥ गीतिः निजजीवनमपि शास्त्रैर्नियमयति च खलु सोऽनिशं रे नैकग्रन्थप्रणेता निर्मलप्रज्ञावान् जिनशासनगगनाग्रतले सज्ज्ञानविरोचिषं रे सर्वानुग्रहकामनया स नु दीपितवान् ॥११॥ दीक्षा.... काव्यम् सर्वेषामागमानां ते योगविधिपुरस्सरम् । स्वाध्यायं मुनिषु शुद्धं युगेऽत्राऽवर्तयन् वरम् ॥१२॥ गुरुगुणसङ्कीर्तनम् । २९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy