________________
गीतिः (रागः हालो हालो हालो हालो मारा नन्दने रे....)
दीक्षामङ्गीकृतवन्तं प्रणमन्तु सज्जना रे.... फलितः पुण्यसमूहो नेमचन्द्रविहितो ध्रुवं रे जातो बाल्ये वयसि दृढतरविरागभाक् हित्वा शिक्षण-वाणिज-कुटुम्बकानि सगौरवं रे धार्मिक-संस्कृतशिक्षार्थं कृतबुद्धिाक्..... दीक्षा० ॥१॥
काव्यम् भावनगरपुर्यां हि पित्रोरनुज्ञया गतः । वृद्धिचन्द्रगुरोः पार्श्वे ज्ञानार्जनसुहेतुतः ॥२॥
__ गीतिः सुगुरुर्वृद्धिचन्द्र इह संविग्नो ननु संयमी रे सुविहितमार्गदेशको हितकारी शमिराट् तत्पदसेवनतश्च ज्ञानाभ्यासपुरोगमी रे एवं वैराग्येऽपि प्रष्ठोऽभूद् विभ्राट.... दीक्षा० ॥३॥
काव्यम् दुःखपूर्णोऽस्ति संसारस्तस्याऽसार: प्रभासते । प्रव्रज्यां च विना तस्य कालोऽपि विषमायते ॥४॥
गीतिः
दीक्षाग्रहणार्थं न हि पित्रोरनुमतिराप्यते रे गुरवोऽनुमतिमृते न हि दत्ते तां साक्षात् तेन च निश्चयमथ कृत्वा गृहवासस्त्यज्यते रे वैराग्यं हि विजयते प्राकृतपुण्यवशात् ॥५॥ दीक्षा....
काव्यम् गृहं त्यक्त्वा मुनेर्वेषं धृत्वा स्वयं समागतम् । संवीक्ष्य गुरुणा दत्ता दीक्षा तस्मै विरागिणे ॥६॥
२८
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org