SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ इह हि जगति धरित्री, पवित्रीकृता गुणशीलैः शलाकापुरुषैनिजेन जीवितेन, मेघेनेवाऽऽह्लादिता, सलील सलिलासारैर्गुणाधारैश्च साधारा सदाधारा धाराधरैरिव, तेषु गुणिषु गुणमणिषु मूर्धन्याः सर्वज्ञा जिनवराः सकलजन्मिव्रातस्य कार्मणगदानामेकमगदङ्काराः, यतस्तेषां शासनं विबुधव्यूहव्यूयमानप्रामाण्यं कल्पपादपायतेऽनाबाधामाराध्यमानम्, अचिन्त्यचिन्तामणीयते सदा सद्भक्त्या सञ्चिन्त्यमानं, कामकुम्भायते स्वान्तःशुच्या संसेव्यमानम् ।। अत्र सार्वीये सर्वज्ञशासनेऽमोघशासने महालयकल्पे मणिस्तम्भायमानाः प्राणिगणोपकारप्रवणाश्चाऽऽचार्यवर्याः सत्त्वसङ्घातमुच्छासयन्ति जिनप्रवचनानुसारिणाऽमृतसारेण वचनेन, उल्लासयन्ति सतां लक्ष्यभूतेन निजजीवितव्येन, प्रकाशयन्ति स्वाशयदेहलीप्रतिष्ठितेन ज्ञानप्रदीपेन, समुच्छासयन्ति सदा ध्यानाध्वानमध्यमारोपितेन ज्ञानफलभूतेनाऽऽचारेण । विश्वगुणाधारेषु गुणधरेषु गणधरेषु गौतममुख्येषु प्रवृत्तिमत्सु प्रवर्धमानं वर्धमानजिनप्रवचनं, स-मुद्रमद्याऽवधि सावधिरब्धिरिव, गरिष्ठं गुणिषु गुणैकमत्सरेषु, वरिष्ठं वादविशेषेषु विबुधवृन्दवन्येषु, प्रकृष्टं प्रज्ञावत्सु प्रकर्षवत्सु प्रज्ञाफलावनमत्सु । ___ अतः सार्वीये श्रीवर्धमानजिनशासने मौक्तिकाहाराकारे गौतमेन्द्रभूतिप्रभृतिगणधरा नायकायन्ते, भद्रबाहु-सुहस्ति-देवर्द्धिवाचकोमास्वाति-सिद्धसेनदिवाकर-हरिभद्र-शीलाङ्काऽभयदेव-हेमचन्द्र-यशोविजयोपाध्यायाद्याः सूत्रायन्ते ।। तथाविधे वर्धमाने वर्धमानजिनेन्द्रशासनेऽधुनाऽऽधुनिकेषु शासनप्रभावनादिना तीर्थोद्धारयात्रा-जिनायतननिर्माण-शास्त्राध्ययनाध्यापनादिना भूरिगुणेषु सूरिनिकरेषु, 'शासनसम्राट' इत्यपराभिधयाऽभिधीयमानः श्रीविजयनेमिसूरीश्वरः परां स्तुतिं प्रस्तुति च प्राप्तवान् । तस्याऽद्वितीयस्याऽऽचार्यवर्यस्य तृतीयपरमेष्ठिपदारोहणस्य शततमे वत्सरे शतशः प्रणमामि तत्पादान्, स्तवीमि गुणमणीन्, किन्तु श्रुतनिरतस्य श्रमणशिरोमणेराचार्यप्रवरस्य गुणसङ्कीर्तनेऽक्षमतया मया या काऽपि धृष्टता विहिता स्यात् तत्राऽवश्यं सोढव्यं शेमुषीशेखरैः सुधीभिः । कथम् ?यथा किं बाललीलाकलितो न बाल: पित्रोः पुरो जल्पति निर्विकल्पम्... इतिवत् ममाऽपि जल्पं चापलकल्पमेव मन्तव्यं मनीषिभिः । अपि तु सकर्णाः ! सुधियोऽवधानमाधाय 'गुरुगुणवर्णनं दोषापनोदाय गुणाधानाय च' इति मत्वा पठन्तु - एतत् संक्षिप्तं किन्तु क्षितिप्रक्षिप्तगुणं श्रीनेमिसूरीश्वराणां शासनसम्राजां सूरिचक्रचक्रवर्तिनां कदम्बगिर्याद्यनेकतीर्थोद्धारकाणां जीवनवृत्तान्तं नितान्तं कल्याणकृत् । ६० शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy