SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ शासनसम्राट अल्पीयसैव कालेन पूज्यस्य पुण्यप्रभावः सर्वत्र प्रसृत आसीत् । पूज्यस्य चारित्रतेजोदृढसत्त्व-मतिपाटव-कुशलनेतृत्वादिगुणैः सर्वेऽपि परिचिताः प्रभाविताश्चाऽऽसन् । भारतवर्षस्य जैनसमाजस्य श्रमणसंस्थायाश्च हृदये पूज्यस्याऽनन्यसाधारणं गौरवपूर्णं च स्थानमासीत् । शासनस्य जैनसङ्घस्य च यस्मिन् कस्मिंश्चिदपि प्रश्ने पूज्यस्य मार्गदर्शनमनिवार्यमासीत् । अत्रान्तरे वि.सं. १९६४ तमवर्षे 'अखिलभारतीयजैनश्वेताम्बरमूर्तिपूजक-कोन्फरन्स' इत्यस्य षष्ठमधिवेशनं भावनगरे आयोजितमासीत् । श्रेष्ठिवर्यश्री मनसुखभाई-भगुभाईमहोदयस्तस्य प्रमुखत्वेन चित आसीत् । एतस्मिश्चाऽधिवेशने पूज्योऽप्युपस्थितो भवेत् - इति समेषामभिलाष आसीत् । श्रेष्ठिजनानां साग्रहानुरोधेन पूज्यस्तत्र समागतः । तत्र च विविधविषयानधिकृत्य चर्चा प्रवृत्ता । पूज्येन हि प्राचीनतीर्थानां संरक्षणाय संवर्धनाय च सर्वेऽपि जागरिताः । तस्मिन् समये तपागच्छे कोऽपि समर्थ आचार्यो नाऽऽसीत् । तदर्थं च श्रीसङ्के विचारोऽपि प्रवर्तते स्म - 'कोऽत्र भारवहने समर्थः ?' इति । पूज्यगम्भीरविजयमहाराज-पूज्यमणिविजयमहाराज-इत्युभयोरपि पूज्ययोश्चित्ते 'नेमविजय एवाऽत्र समर्थ' इति प्रतीतिरासीत् । अधिवेशनावसरे उपस्थितानां सङ्घाग्रणीनां पुरतः प्रस्तावमेनं पूज्यौ पुरस्कृतवन्तौ । सर्वैरपि चैकमत्येन सहर्ष तदङ्गीकृतम् । पदप्रदानाय च तत्रैव विज्ञप्तोऽपि पूज्यगम्भीरविजयमहाराजः । सोऽपि श्रीनेमविजयमहाराजस्य पञ्चप्रस्थानमयश्रीसूरिमन्त्रसमाराधनं कारितवान् । भावनगरसत्कजैनसङ्घोऽपि आचार्यपदप्रदानमहोत्सवाय सन्नद्धो जातः । अभूतपूर्वमहपूर्वकं च वि.सं.१९६०तमवर्षस्य ज्येष्ठशुक्लपञ्चमीतिथौ श्रीगम्भीरविजयमहाराजस्तं पूज्यमाचार्यपदेनाऽलङ्कतवान् । तद्दिने च समग्रेऽपि भारते वर्षे विद्यमानेषु संवेगमार्गीयेषु तपागच्छीयसाधुवर्येषु सविधि योगमुद्वाह्याऽऽचार्यपदप्रापकः सर्वप्रथम एवाऽऽचार्यः पूज्यो जातः । समस्ततपागच्छस्य नायकः 'शासनसम्राट्' सोऽभवत् । पूज्यस्य पिता तु तदा विद्यमानो नाऽऽसीत्, किन्तु पूज्यस्य कृते तस्य हृदि कियान् सन्तोष आसीत् स हि तस्मिन्नेव वर्षे कार्तिकमासे लिखिते पत्रे प्रकटितो भवति- “यदा भवता साधुत्वमङ्गीकृतं तदा मम मनसि द्वेष उत्पन्न आसीत्, किन्तु भवानद्य पूर्वाचार्यैः सदृशो जातोऽस्ति, अस्माकं कुलस्य गौरवमपि भवता वर्धितम् । भवन्तं प्रति यत्किमपि मयाऽप्रीतिकरमाचरितं स्यात् तन्मे दुष्कृतं मिथ्या भवतु । भवानपि शास्त्रसर्जनं कुर्यादिति मेऽभिलाषोऽस्ति । महोपाध्यायश्रीयशोविजयमहाराजस्य ग्रन्थानां पठनं मयि रोमाञ्चं जनयति । भवताऽपि यत् श्रीहरिभद्रसूरिभगवतोऽष्टकप्रकरणमत्र विवेचितं तेन भवज्ञानसम्पदमनुभूय मम महानानन्दो भवति" इति । पत्रमेतद् वि.सं. १९६४तमवर्षे कार्तिककृष्णद्वितीयातिथौ लिखितमासीत् । तदनन्तरं स दिवं गतवानासीत् । चित्रमयो विजयनेमिसूरिः ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy