SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ तृतीया पुष्पपूजा षण्णां जीवनिकायानां, पालकस्तातसन्निभः । यतनावान् दयालुश्च, मुनिर्भवति सर्वदा ॥१॥ सर्वदा समतायुक्तः, स्थूलसूक्ष्मशरीरिषु । जिनोक्तरीत्या भावेन, द्रव्येणाऽपि दयायुतः ॥२॥ दयाकार्याणि यानीह कृतानि नेमिसूरिभिः । तेनोपमामहं तेभ्यो ‘लघु-हीर' इति ददे ॥३॥ आमोदपूर्णपुष्पैश्च भरितं सत्करण्डकम् । ढौके भवत्कृपामोदप्रसारार्थं गुरुत्तमाः ! ॥४॥ गीतिः (राग: वैष्णवजन तो तेने रे कहीए..../ वीरजिणंद जगत उपकारी) वन्देऽहं सद्गुरुभगवन्तं भावदयोदन्वन्तं रे मनो-वचः-कायैः शमवन्तं स्वात्मगुणैर्विलसन्तं रे ॥१॥ वन्देऽहं.... दुःखितमीक्षित्वा सद्दयया नयनयुगं ननु गलति रे जनमथ वा पशुजनमथवाऽपि नूनमेष उद्धरति रे ॥२॥ वन्देऽहं.... वध्यपशूनामुपरि यदा हि गुरुदृक्पातो भवति रे गुरुकरुणातोऽवश्यं तेषां संरक्षणमथ भवति रे ॥३॥ वन्देऽहं.... गुरुभिर्बहुषु प्रदेशेष्वेवं जीवरक्षणं कृतमिह रे जीवदयासंस्थानामृणमथ प्रेरणया दूरितमिह रे ॥४॥ वन्देऽहं.... अब्धितटीयेषु ग्रामेषु सौराष्ट्रे विहरगी रे ज्चालितानि ह्यनले जालानि दाशान् प्रबोधयनी रे ॥५॥ वन्देऽहं.... राजादीनुपदिश्य हि गुरवो जीवदयां कलयन्तो रे व्यसनमुक्तिमथ सौराष्ट्राणां राजभिरनुरचयन्तो रे ॥६॥ वन्देऽहं.... गुरुगुणसङ्कीर्तनम् । ३१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy