SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ स्तम्भतीर्थे जिनालयानां जीर्णोद्धारः ते स्तम्भतीर्थे ‘जीराला’पाटकादिषु स्थलेषु विभिन्ना एकोनविंशतिर्जिनालया आसन् । च जीर्णा आसन् । तत्र च पूजकानां श्राद्धानां सङ्ख्याऽप्यत्यल्पाऽऽसीत् । अतस्तत्रत्यः श्रेष्ठिवर्यः श्रीपोपटलालमहोदयो विचारितवान् यद्- एकमेव विशालं जिनमन्दिरं निर्माय तत्रैवैतेषामेकोनविंशतेजिनालयानां जिनबिम्बानां समावेशः क्रियेत चेत् सौकर्याय जायेत । पूजनार्चनादिव्यवस्थाऽपि सुलभा स्यादिति । पूज्यस्य पुरतः स स्वविचारं निवेदितवान् । पूज्योऽपि तस्य विचारं समर्थितवान् । पश्चाच्च पूज्यस्य मार्गदर्शनेन तेन च प्रदत्ते मुहूर्ते जीर्णोद्धारकार्यारम्भो जातः । निजपर्यवेक्षणे एव जीर्णोद्धारकार्यं कारयितव्यमिति सङ्कल्पितवान् श्राद्धः श्रीपोपटलालमहोदयः । तदन्वयेन च स नित्यं प्रभातकाले शीघ्रमागत्याऽऽसायं तत्रैव कार्यव्यस्तस्तिष्ठति स्म । तत्कार्यं च वि.सं. १९६२तमवर्षे सम्पन्नं जातम् । तत्र च मूलनायकत्वेन श्रीचिन्तामणिपार्श्वनाथभगवान् प्रतिष्ठापित: । विभिन्नानां जिनालयानां मूलनायकभगवन्तश्च विभिन्नेषु गर्भगृहेषु स्थापिताः । पूज्यस्य सान्निध्ये एवैष प्रतिष्ठामहः सम्पन्नो जातः । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः १०७ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy