SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ (६) रोहीशाला श्रीशत्रुञ्जयतीर्थस्य चतुर्ष्वपि दिक्षु सोपानपङ्क्तिरस्ति । ताभ्य एका रोहीशालाग्रामात् प्रारभमाणाऽऽसीत् । एषा च सोपानपङ्किः शत्रुञ्जयतीर्थं कदम्बगिरितीर्थेन सह योजयितुं सेतुतुल्याऽऽसीत् । अथ च यदा वि.सं. १९८२ तमवर्षे मुण्डकाख्यकरविरोधे जैनसमाजेन यात्रानिषेध उद्घोषित आसीत् तदा 'वैकल्पिकरूपेण यद्यत्र तलहट्टिकां निर्माप्य यात्रा क्रियेत तर्ह्यस्य प्रश्नस्य सर्वकालीनं समाधानं भवेत् । करोऽपि दातव्य एव न भवेत्' इति पूज्यस्य विचारः समुद्भूत आसीत् । अतः पूज्योपदेशेन श्रीआणंदजीकल्याणजीसंस्था तत्र जिनालयोपाश्रयधर्मशालादिकं निर्मापितवती । (७) शेरीसातीर्थम् - वि.सं. १९६९तमवर्षे पूज्योऽत्राऽऽगत आसीत् किन्तु तीर्थस्य स्थापत्यानां चाऽवदशां दृष्ट्वा बहुदुःखितो जातः । शेरीसापार्श्वनाथस्यैका प्रतिमा जिनालये आसीत्, अन्या चैका ग्रामे कासारतीरेऽधोमुखी भूमावासीत् । सामान्यं पाषाणं मत्वा जनास्तत्र वस्त्रक्षालनादिकं कुर्वन्त आसन् । पूज्यस्तां प्रतिमां जिनालये स्थापितवान् । राजनगरं चाऽऽगत्य श्रीमनसुखभाई - श्रीसाराभाई आदि श्रेष्ठिजनानुपदिश्य सत्वरं तीर्थोद्धारं कारितवान् । (८) कापरडातीर्थम् ( चित्राङ्कः २८ द्रष्टव्यः) (९) तालध्वजतीर्थम् एतस्य तीर्थस्य योग्यप्रबन्धार्थं पूज्यः श्रीभोगीलाल- श्रीखान्तिलालादीनां श्राद्धानां नियुक्तिं कृतवान् । तदनु च तीर्थस्य जीर्णोद्धारः कारित: । तत्र च द्विपञ्चाशत्कुलिकायुतं नवमेकं जिनचैत्यमपि निर्मापितम् । (१०) श्रीस्तम्भतीर्थम् - ( चित्राङ्कौ १७ - १८ द्रष्टव्यौ) पूज्योपदेशेन पुरुषार्थेन च जीर्णोद्धृतानां तीर्थानां त्वेषोऽङ्गुलिनिर्देश एव केवलम् । एतादृशानि त्वनेकानि तीर्थानि पूज्योपदेशेन जीर्णोद्धृतान्यासन् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरिः www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy