________________
व्यावहारिकोऽभ्यासः जन्मराशिमनुसृत्य शुभे चाऽहनि बालकस्य 'नेमचन्द' इति नामकरणं विहितं कौटुम्बिकैः । प्रातिवेशिकानां स्वजनसम्बन्धिनां च वात्सल्यपूर्णेन लालनपालनेन वर्धमानः स पञ्चवर्षदेशीयो जातः । अथ च मातापितृभ्यां विद्याध्ययनार्थं शालायां प्रवेशितः सः । शालायां नेमचन्दः सर्वप्रथमं विद्यादेव्याः सरस्वत्या दर्शनं स्तुतिप्रार्थनादिकं च विहितवान् । पश्चात् शिक्षक नमस्कृत्य तस्य चाऽऽशिषं गृहीत्वाऽध्ययनस्याऽऽरम्भं कृतवान् ।।
___ तत्काले हि शाला 'धूलीशाला'- इत्याख्यया प्रसिद्धाऽऽसीत् । काष्ठफलके धूली निक्षिप्य तत्र च काष्ठशलाकयाऽक्षराण्यङ्कनीयानि-शिक्षणस्यैनां रीतिमनुसृत्य 'धूलीशाला' इति तस्या अभिधानं जातमासीत् । बालकाश्च शिक्षकाणां गृहाङ्गण उपविश्यैवाऽध्ययनं कुर्वन्ति स्म । तत्र च प्राथमिकाभ्यासरूपेण मूलाक्षराणामङ्कानां च लेखनमुच्चारणं च बालकानां शिक्ष्यन्ते स्म।
नेमचन्दो बाल्यादेव कुशाग्रबुद्धिरासीत् । अतः शिक्षकेन श्रीमयाचन्दमहोदयेन यत्किमप्यक्षराङ्कादिकं शिक्षितं तत्सर्वमपि झटित्येव तेनाऽऽत्मसात्कृतम् । पश्चाच्च श्रीहरिशङ्करनामशिक्षकस्य शालायां सप्तकक्षापर्यन्तं गूर्जरभाषया अभ्यासः कृतः । अभ्यासे सर्वदा सोऽग्रेसर एव भवति स्म । तदनु च भावनगरराज्यान्वयेन प्रवर्तमानायां शालायामाङ्ग्लभाषयाऽभ्यासोऽपि वर्षत्रयं यावद् विहितः । तत्र च श्रीपीताम्बरदासाभिधः शिक्षक आसीत् । एवं च तस्य व्यावहारिकाभ्यासः पूर्णो जातः ।
चित्रमयो विजयनेमिसूरिः ७७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org