SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १२ यो निर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितो, योऽनङ्गारतिकारकोऽपि विमलानङ्गार्थसंसाधकः । निःसङ्गोऽप्युपकारदीनकरुणाद्यैः सद्गुणैः सङ्गवान्, तं कुर्वे प्रणिधानगोचरमहं श्रीनेमिसूरीश्वरम् Jain Education International कालेऽस्मिन् गणधारिगौतम इव प्रौढप्रभावाञ्चितो, भूपालेभ्यगणैर्गुणैक रसिकै रिज्योऽपि नम्रश्च यः । आयोपायविचक्षणः श्रमणसङ्ग्रापायनिस्फेटकस्तं वन्दे ममतावितानरहितं श्रीनेमिसूरीश्वरम् विज्ञातः स्वपरार्थशास्त्रविसरो येनाऽऽशु बुद्धेर्बलाद्, यः पञ्चातिशयैर्युतोऽत्र जयति स्थानाङ्गपाठानुगैः । चित्तं सद्गुणनिर्गुणेऽपि समतां यस्याऽन्वहं सङ्गतं, नित्यं सोऽपि तनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं, सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकम्पाभृतः । सप्तक्षेत्रधनव्ययादिनिरता जाता नेकेऽङ्गिनस्तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिसूरीश्वरम् ॥७॥ प्राक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते, सञ्जातोऽखिलशास्त्रयोगकुशलो यस्याऽनुभावादहम् । सिद्धान्तार्थरहस्यमप्यवगतं भक्त्या मयाऽन्तःस्थया, तं नौमीप्सितदानकल्पविटपिश्रीनेमिसूरीश्वरम् वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितस्तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः शासनसम्राड्- विशेषः ॥५॥ For Private & Personal Use Only દા ॥८॥ un સો www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy