________________
HESTER
स्वजनानां कोपः शान्तिश्च ___ 'नेमचन्दः साधुर्जातः'- वायुवेगेन वृत्तमिदं महुवानगरं प्राप्तवत् । गृहस्य वातावरणं संक्षुब्धं जातम् । सर्वेऽपि स्वजनादयः सत्वरं भावनगरमागताः । गुरुभवन्तं च लक्ष्यीकृत्योपालब्धं प्रवृत्ताः – “किमर्थमस्माकमनुमति विनैव कृतमेतद् भवता ?' इति । सर्वेऽपि कोपाकुला आसन् किन्तु गुरुराजः शान्ततयोक्तवान् - भो भ्रातर् ! एष स्वयमेव साधुवेषं धृतवानस्ति । नाऽस्त्यत्र मम कोऽपि दोषः' इति ।
एतच्छ्रुत्वा सर्वेऽपि नूतनं मुनिवरं प्रति गत्वा तमप्युपालब्धुमारब्धवन्तः । स कथमपि प्रतिनिवर्तेतेत्यतस्तं ते भीतिमपि दर्शितवन्तः, स्नेहं प्रदर्श्य बोधितवन्तश्चाऽपि किन्तु न कोऽपि प्रभावः सञ्जातः । स हि मेरुरिव निष्प्रकम्प एवाऽवतिष्ठत् । केवलं मन्दं मन्दं हसति स्म स समेषां मोहचेष्टितं दृष्ट्वा । माता ह्यत्यन्तं व्याकुला जाताऽऽसीत् । सा च भित्त्या शिरआस्फालनं कुर्वत्यासीत् । सा पुनः पुनः- 'मम मे पुत्रं प्रत्यर्पयतु' इत्येतदेव वाक्यमुच्चारयति स्म । किन्तु नैतावताऽपि मुनिश्चलितः ।
कौटुम्बिकैः सह लक्ष्मीचन्दमहोदयस्य वयस्य एक रूपशङ्कराख्योऽपि तत्राऽऽगत आसीत् । कश्चिद् न्यायाधीशस्तस्य मित्रमासीत् । कदाचिद् भयादयं प्रतिनिवर्तेतेति मत्वा स मुनिवरो न्यायाधीशसमक्षमप्यनीयत । कामपि प्रतिक्रियां विना मुनिरपि निर्भयं तत्र गन्तुं सिद्धो जातः । तदीयसत्त्वेन च विश्वस्तमना गुरुवरोऽपि तत्र गन्तुं साशीर्वादमनुमतिं दत्तवान् ।
न्यायाधीशोऽपि स विविधया रीत्या तं बोधयितुं प्रयत्नान् कृतवान् । किन्तु निश्चलं तं दृष्ट्वा किञ्चित् कठोरतयाऽपि स तेन सह व्यवहृतवान् । तथाऽप्यस्य मुनेस्तु- "मेरुः कदाचिच्चलितो भवेदपि, नो सात्त्विकानां चलतीह यन्मनः" इत्येतादृशी स्थितिरासीत् । अतः सोऽन्तिमं शस्त्रमुपयुक्तवान्-'यदि त्वमस्माकं वचनं नैवाऽङ्गीकरिष्यसि तहिं त्वां शृङ्खलया भंत्स्यामि' इति । मुनिरपि स सस्मितं किन्तु दृढतया प्रत्युत्तरितवान् - 'एष साधुवेषो न कदापि मम शरीराद् वियुक्तो भविष्यति । एष मम प्राणतुल्योऽस्ति । अपरं च, शृङ्कलैषा हस्तपादादीनां बन्धनं न त्वात्मनः, स हि सर्वथा सर्वदा च मुक्त एवाऽवतिष्ठतेऽतो नाऽहमेतादृशेन केनाऽपि बन्धनेन बिभेमि' इति ।
अनेन न्यायाधीशोऽप्यस्य दृढसत्त्वमनुभूय चेतसि चमत्कृतः सन् प्रसन्नो जातः । कौटुम्बिकांश्च सम्यग् बोधयित्वा प्रतिन्यवर्तयत् ।
सर्वेऽपि गुरुभगवतः समक्षमुपस्थिता जाताः । सर्वेऽपि शान्ता आसन् । अतो मुनिराजेन सर्वेऽपि सम्यग् बोधिताः । तेन च सन्तुष्टाः सर्वेऽपि गुरुभगवतां क्षमा याचित्वा नूतनं मुनिवरं च हितशिक्षां दत्त्वा स्वगृहं गतवन्तः ।
चित्रमयो विजयनेमिसूरिः ८९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org