SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ म डॉ. वासुदेव वि. पाठकः 'वागर्थः' अमदावाद-१५. नन्दनवनमाध्यमेन वर्धते तपः; कल्पतरुपुष्पैश्च तोषस्तोषः ॥ सम्पूज्या गुरुचरणानुरागिणः, संस्कृतसेवकाः सम्पादकवर्याः, नन्दनवनकल्पतरोः, सादरं प्रणतयः । नन्दनवनकल्पतरोः उत्तरोत्तरसमृद्धिः सद्गुरोः प्रसादतः, इत्यहो प्रसन्नताप्रदम् ॥ विविधप्रकारकः काव्यकलापः, समृद्धाः लेखाः, अनुवादाः, मर्म-नर्मविभागः, शास्त्रीयचर्चा, पुस्तकसमीक्षा, इत्यादिकं वैविध्यमास्वाद्यमेव । सामयिकेनाऽनेन सारस्वती-सेवा सम्पाद्यते, इत्यहो सादरं सप्रणाममभिनन्द्यम् । वन्द्याः देशिकाः विद्वांसः विजयशीलचन्द्रसूरिचरणाः, शिष्यत्वेन च तेषां प्रवृत्ता कीर्तित्रयी, सेवयाऽनया धन्यतामनुभूय धन्यान्करोत्यन्यानित्यनुकरणीयम् । सुभाषितानां समावेशः नूनमावकार्यः, चिरंतनबोधत्वेन तत्र । किन्तु, सुभाषितसङ्ग्रहेषु बहुधा वर्तन्त एते । अतः, अप्रकाशितानां नूनानां सुभाषितानां समावेशः यदि स्यात्, तर्हि साहित्यसमृद्धिः वर्धयिष्यन्तीति मन्ये । पञ्चतन्त्रस्वरूपाः जिज्ञासामूलाः कथाः अपि आवकार्याः । सुज्ञाः भवन्तः ॥ सुज्ञे सङ्कलने, चित्ते सौख्यं हि भवति भृशम् । सारस्वते तथा वित्ते समृद्धिश्च सुखावहा ॥ सम्पादकीयं सूचयति यत् बालास्तु निर्दोषाः । वस्तुतस्तु, तेषां शिक्षकाणां शिक्षणं, पालकानां प्रशिक्षणं, संस्कृत-संस्काराश्च करणीयाः । मूले सिञ्चनं श्रेयस्करम् । Teacher is to be taught. शिक्षकाणां शिक्षणम् अनिवार्यम् । तेषां दृढाः भारतीयाः संस्काराः, सहजतया छात्रेषु संक्रान्ताः स्युः । एतदर्थं, महावीरस्य, बुद्धस्य, व्यासस्य, वाल्मीके:, शंकरस्य, विवेकानन्दस्य, नानककबीरतुलसीदासादिनां च साहित्यं सततं पाठनीयम् । राष्ट्रभक्तानां चरित्रैस्तेषां परिचयः कार्यः राष्ट्रभक्तिवृद्ध्यर्थम् । एवं कृते, स्यात् संस्कृतिरक्षणम्, विपरीतवातावरणेऽपि ॥ अस्तु शिवम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy