SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आदर्शो ऽनुशासकः पूज्यस्याऽनुशासनपद्धतिरद्वितीयाऽऽसीत् । स्वशिष्याणां योगक्षेमार्थं सर्वप्रकारेण स प्रयतते स्म । उपाश्रयस्य मध्यभाग एव पूज्यः सदोपविशति स्म येन परित उपविष्टानां शिष्याणामध्ययनाध्यापनक्रियादिष्ववधानं स्यात् । शिष्याणामध्ययनविषये पूज्योऽत्यन्तं जागरूकतया वर्तते स्म । पूज्यः स्वयमपि तान् पाठयति स्म, पण्डिताश्चाऽपि केचन पूज्येन सहैव वसन्तः पाठयन्ति स्म । विहरणं वा स्यात् स्थैर्यं वाऽध्ययनाध्यापनकार्यं त्वविरतं प्रवर्तते स्मैव । विहारकाले तु ग्रामान्तरं प्राप्य कुत्रचिद् वृक्षस्य छायायामुपविश्य पूज्यः शिष्यान् पाठयति स्म । तदा च कस्यचित् पुरातनकालीनस्य गुरुकुलस्याऽऽश्रमस्य वा स्मरणं भवति स्म । तादृशं दृश्यं पश्यन्तो जनाः स्वयं धन्यत्वमनुभवन्ति स्म । अध्यापनकाले तु पूज्यस्तथैकाग्रो भवति स्म यद् यः कोऽपि श्रावको वा सङ्घो वाऽप्यागच्छेत् तथाऽपि न तत्र दृष्टिमपि दद्यात् । सर्वेऽपि चाऽऽगन्तुकाः पाठं यावच्छान्तमुपविश्य पूज्यस्य कठोरशिक्षणपद्धतिमास्वादयन्ति स्म । न केवलं ज्ञानार्जनेऽपि तु चारित्रस्य परिशुद्धपालनेऽपि पूज्यस्याऽऽग्रह आसीत् । कमपि प्रमादग्रस्तं दृष्ट्वा पूज्योऽनुक्षणमेव तमनुशास्ति स्म - 'भोः ! सम्यक् श्रमं कुरुध्वम् । यदि चारित्रपालने पठने च श्रमं नैव करिष्यथ तर्हि श्राद्धेभ्यो गृहीताया भिक्षाया अजीर्णं भविष्यति । तदृणप्रत्यर्पणाय च भवान्तरे कष्टकरं पशुजन्म प्राप्स्यथ, अतः सम्यक् पठत सावधानं च पठत' इति । एतादृशस्याऽनुशासनस्य फलरूपेण जैनसङ्खेन चारित्रसम्पन्ना ज्ञानविभूषिता अष्टावाचार्या अन्ये चाऽनेके ज्ञानिनस्तपस्विनः साधवः प्राप्ताः । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरि : १३५ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy