SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पलायनम् पिता पुत्रश्च भावपि स्वस्वनिर्णये दृढावास्ताम् । नेमचन्दो गुरुभगवतः सान्निध्यमेवाऽभिवाञ्छति स्म । पिता तु तस्य निवेदने कर्णमपि न ददाति स्म । गच्छता समयेन नेमचन्दस्य विह्वलता प्रवृद्धा - 'किमथ करणीयम् ?' इति । 'दुर्लभजी बखाई' इत्याख्यस्तस्यैको वयस्य आसीत् । सोऽपि मुमुक्षुरेव । तस्याऽपि कुटुम्बं तं तदर्थं नाऽनुमन्यते स्म । उभयोरपि स्थितिः समानैवाऽऽसीत् । अथ तौ सम्मील्य किं कथं च करणीयमिति विचारितवन्तौ । 'अनुमतिप्रापणं त्वशक्यमेव, अतः कश्चिदन्य एवोपाय आदरणीय' इति तयोर्भासितम् । स ह्युपाय एक एवाऽऽसीत्- 'कस्मैचिदपि किमप्यनुक्त्वैव गृहात् पलायनं करणीयमिति । उभावप्यवसरं प्रतीक्षेते स्म । एकदा रात्रौ गृहे सर्वेऽपि शयनार्थं प्रवृत्तास्तदा नेमचन्देन बृहत्या मञ्जूषाया अन्तः कोषात् चतुर्दशरूप्यकाणि गृहीतानि । पश्चाच्च 'अधुनैव निवत्यें' इत्युक्त्वा सर्वेषां मानसिकं प्रणामं कृत्वा गृहान्निर्गतः । पूर्वमपि बहुशस्तेनैवं गमनागमनं कृतमासीदतः समेषां विश्वासोऽपि तेन सम्पादित आसीत् । एवं चाऽद्याऽपि सर्वे विश्वस्ता एवाऽऽसन् । अतः केनाऽपि प्रतिप्रश्नः न कृतः । तत्काले हि पेट्रोलयानानां बाष्पयानानां चाऽभावात् शकटेनोष्ट्रेनैव वा यत्र कुत्राऽपि गन्तव्यं भवति स्म । तावपि योजनानुसारेण पूर्वमेव कञ्चिदुष्ट्रचालकं सज्जीकृतवन्तावास्ताम् । प्रथमं तु गमनं निराकुर्वन्नपि सोऽधिकधनलोभेनाऽङ्गीकृतवानासीत् । सङ्केतानुसारेण द्वावपि वयस्य तस्य गृहं प्राप्तवन्तौ । महति प्रत्यूषे इतः प्रस्थातव्यमिति निर्णयो जातः । 'झीणीयो' इति तस्य नामाऽऽसीत् । तस्य गृहं तु स्मशानसमीपे आसीत् । 'यदि कश्चिदनयोरन्वेषणं कुर्वन्नागमिष्यति तर्हि तन्मम कष्टाय भविष्यति' इति भीत्या 'युवां यत्र कुत्राऽपि रात्रिं गमयतां, न मम गृहे' इत्युक्तवान् सः । उभावपि तौ स्मशान एव कस्यचिद् वृक्षस्याऽधो निर्भयं रात्रिमगमयताम् । 'किं नाम भयं विरक्तानाम् ?' | प्रातस्तौ तं जागरितवन्तौ । किन्तु भयात् पुनः स गमनं निराकृतवान् । 'कञ्चित् साक्ष्यमानयतु' इत्युक्तवांश्च । दुर्बोधोऽयमिति विचार्य ग्रामस्य सीमन इच्छाचंदमहोदयमानीतवन्तौ । स ह्येतावभिजानाति स्म । किन्तु, अनयोः प्रवृत्त्या सर्वथाऽनभिज्ञ आसीदतः स उष्ट्रचालकमेतौ नेतुमुक्तवान् । सोऽप्यनेन निःशङ्कितः सन्नङ्गीकृतवान् । त्रयोऽप्युष्ट्रमारुह्य पवनजवेन भावनगरं प्रति गमनमारब्धवन्तः । उभयोरपि मुखे प्रसन्नतातिरेकेण विकसिते जाते । हृदये चोत्तेजिते आस्ताम्। एवमेव प्रवासं कृत्वा तृतीयदिने तौ भावनगरं स्वकीयेष्टस्थानं प्राप्तवन्तौ । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसूरि: |८५ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy