SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ शताब्दीसमर्चना भारतवर्षमिदमनेकविधधर्मपरम्पराणामाश्रयभूतो देशोऽस्ति । प्रतियुगमेतासां विभिन्नधर्मपरम्पराणां समक्षं यथा स्वस्वदेश-कालानुरूपं युगकार्य भवति, स्वकीयाश्च काश्चन समस्या विद्यन्ते, तथैव तत्तत्कार्याणां कर्ता, समस्यानां च परिहर्ता कश्चिन्महापुरुषोऽपि समुद्भवत्येव । आचार्यश्रीविजयनेमिसूरीश्वरा अपि विंशशताब्द्यां जैनधर्मसङ्घस्यैतादृशा एव युगपुरुषा आसन् । स्वकीये काले समुद्भूतानां सङ्ख समाजं च पीडयन्तीनां नानाविधानां समस्यानां परिहारार्थं स्वीया समग्राऽपि क्षमता तैर्विनियोजिता, तथा ज्ञानसाधना-तीर्थोद्धार-जीवदया-शासनरक्षासङ्घौन्नत्याद्यानि कार्याणि तैस्तथा कृतानि कारितानि च यथा तेषां युगो 'नेमियुग' इति रूपेण जैनसङ्घन स्वीकृतः । ___एतेषां जीवनकथेयं किल जैनसङ्घस्य भविष्यत्सन्तत्या दन्तकथात्वेन मंस्यते, या च दन्तकथा न कपोलकल्पिताऽपि तु पूर्णतः सत्येन परिमण्डिता तद्युगीनैतिहासिकतथ्यैश्च परिपूर्णा भवेत् । को नामाऽत्र विश्वस्याद् यत् - + पूज्यैः क्रियमाणे जिनप्रतिमानां प्राणप्रतिष्ठाविधाने प्रतिमासम्मुखं स्थापितो दर्पणः तत्क्षणमेव खण्डशो भवति स्म ? - महम्मद-छेलनामको विश्रुत ऐन्द्रजालिकोऽपि यैः स्वीययोगशक्तिप्रदर्शनद्वारा साधुजनपीडनान्निवारित आसीत् ? | स्तम्भतीर्थे जीरालापाटकमध्ये जीर्णोद्धृतस्य जिनालयस्य प्रतिष्ठावसरे दिक्पालादिदेवेभ्यः तत्सान्निध्ये प्रदत्तं बलि-नैवेद्यमाकाश एवाऽन्तर्हितं जातम् ? न कदम्बगिरितीर्थे प्रतिष्ठामहे समुद्भूता झञ्झावाताद्या नैकोपद्रवा एषां महापुरुषाणां प्रभावात् स्वयमेवोपशान्ताः? * तत्रैव तीर्थे द्वितीये प्रतिष्ठामहोत्सवे नूतनचैत्ये समुद्भूतो दवाग्निरेतेषामचिन्त्यमाहात्म्येन विध्यातस्तथा तदर्थं क्रियमाणेऽनुष्ठाने देवताबलिरूपेणाऽऽकाशे उत्क्षिप्तानि नवनवतिः श्रीफलानि तु न पुनरधः पतितानि ? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy