________________
वैराग्य-परीक्षा पूज्यगुरुभगवतः पवित्रे सान्निध्ये नेमचन्दस्य दिवसा ज्ञान-ध्यान-क्रियासु सोल्लासं व्यतियन्ति स्म । अत्रान्तरे पितुः सन्देश आगतः- 'नेमचन्दस्य पितामही दिवं गताऽस्ति' इति ।
एतज्ज्ञात्वा नेमचन्दः प्रत्युदतरत् - 'असारोऽयं संसारः । न विश्वास्योऽयम् । अत्र न कोऽपि कस्यचिदस्ति । धर्म एव शरणम् । स एव च पन्थाः श्रेयस्करोऽपि । अतः स एवाऽऽलम्बनीयः' इति ।।
__एतादृशं प्रत्युत्तरं प्राप्य 'पुत्रस्य चित्ते वैराग्यं प्रादुर्भूतमस्ति' इति पिता कल्पितवान् । यदि नामाऽतः परं स तत्र निवत्स्यति तदा तु स साधुत्वमेवाऽङ्गीकरिष्यति - इति भयात् त्वरितमेव सोऽन्यत् पत्रं लिखितवान् - 'मम स्वास्थ्यं प्रतिकूलं वर्ततेऽतस्त्वं यथाशीघ्रं गृहं निवर्तस्व' इति। पितुरस्वस्थतासन्देशेन चिन्तितो नेमचन्दो गुरुभगवतोऽनुज्ञां प्राप्य स्वगृहं प्रत्यागतवान् । किन्तु, गृहद्वारं यावदागतः सर्वानपि स्वस्थतया स्वस्वकार्ये व्यापृतान् दृष्ट्वा विचक्षणो नेमचन्दोऽवबुद्धवान् यद् "मम गृहं प्रत्याकारणायैवैषा युक्तिः प्रयुक्ताऽऽसीत् पितृभ्याम्' - इति ।
अथ पुनरस्मै भावनगरं गन्तुमनुमति व दातव्या-इति सङ्कल्पे पितरौ दृढावास्ताम् । गच्छद्भिर्दिवसैश्च सह नेमचन्दस्य वैराग्यमपि दृढं दृढतरं च जायमानमासीत् । येन केनाऽपि सह वार्तालापेऽपि तस्य वैराग्यं प्रतिध्वनितं भवति स्मैव । एकदा कस्यचिद् विवाहप्रसङ्गे गमनीयमासीत् । तत्राऽपि मित्रैः सह संलापं कुर्वता तेनोल्लिखितं यद् - 'अहं तु साधुत्वमङ्गीकर्तुमभिलषामि' इति । वार्तालापमेनं किन्तु तस्य कनीयसी भगिनी श्रुतवती । पितुरग्रे च सा सर्वमपि प्रस्तुतवत्यपि । एतेन च चिन्तितेन पित्रा तस्योपरि निरीक्षा वर्धिता ।
चित्रमयो विजयनेमिसूरिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org