SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सप्तमी नैवेद्यपूजा सद्गुणाः सन्ति षटत्रिंशद् गुरूणां शास्त्रवर्णिताः । तैः सर्वैः शोभमानं तु नमामि नेमिसूरिपम् ॥१॥ द्रव्य-क्षेत्र-काल-भावान् जानानो निजप्रज्ञया । साध्यं साधयति शुद्धं शुद्धसाधनशक्तितः ॥२॥ आशयः सुविशालोऽस्ति समुदारं मनः परम् । परमतस्य सह्यत्वं दीर्घदृष्टिर्वरा परा ॥३॥ निजः परो वा यः कोऽपि सम्पर्क सद्गुरोरियात् । पङ्क्तिभेदमकृत्वैव कल्याणं तस्य वाञ्छति ॥४॥ भववैद्यसमा ये च भूताश्च मधुरैर्गुणैः । अतो मधुरनैवेद्यैः पूजयामि गुरुन् मुदा ॥५॥ गीतिः (रागः भैरवी) गुरवो जिनशासनशृङ्गाराः गुरवः शिवपदसाधनसाराः वर्णनमिह भावाचार्याणां शास्त्रेषु यत् कथितं तत् सर्वं ननु परमगुरूणां चरिते सम्यक् प्रथितम्... निरुपमप्रतिरूपं सुदृढं ब्रह्मचर्यनिर्वहणम् निखिले साधुगणे इह काले नेमिगुरूणां प्रवणम्... जैनन्याये बहुसद्ग्रन्थान् गुरवो विरचितवन्तः हैमे व्याकरणेऽपि विवरणे लघु-गुरुणी कृतवन्तः... शास्त्राणामविरुद्धं वृत्तं सुविहिततर आचार: गुरुभिरथाऽऽचीर्णः प्रथितश्च नियतं धर्माधारः... बहुविधसमुदायानां धुर्या वर्याः पूज्याचार्याः येषां निर्णयमनुमन्वन्ते जयन्तु ते गुरुवर्याः ... गुरुगुणसङ्कीर्तनम् | ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy