SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ चतुर्थी पुष्पपूजा जिनाः हि प्राप्य कैवल्यं तीर्थं प्रवर्तयन्त्यरम् । विना तीर्थं च तीर्थशाः सम्भवन्त्येव नो किल ॥१॥ चतुर्विधोऽस्ति सङ्घो यः प्रथमो वा गणाधिपः । तीर्थमित्युच्यते तच्च नमन्ति जिनपा अहो ! ॥२॥ भावतीर्थं समाश्रित्य द्रव्यतीर्थं समुलसेत् । भावोत्पादाद् द्रव्यमपि तीर्थं स्थावरमृद्धिमत् ॥४॥ __ जिना गणधराश्चापि मुनयोऽन्येऽपि साधकाः । यत्र मोक्षं लभन्ते हि तत्र तीर्थं विरच्यते ॥५॥ एवं जातानि तीर्थानि कारणैर्विविधैरिह । परन्तु कालग्रस्तत्वात् जीर्णानि कानिचित् खलु ॥६॥ तेषामुद्धरणं कर्तुं रक्षणं वर्धनं तथा । अस्मिन् युगे प्रयतितं पूज्यैः श्रीनेमिसूरिभिः ॥७॥ तपागच्छाधिपतयो नेमिसूरिगुरुत्तमाः । तीर्थरक्षाप्रवृत्तौ हि सङ्घाधाराः सदाऽभवन् ॥८॥ तीर्थोद्धर्तृगुरूणां नु प्रसरेद् भुवने यशः । तदर्थं धूपपूजां हि करोमि गुरुसम्मुखम् ॥९॥ गीतिः (रागः तीरथनी आशातना नवि करिये) तीर्थाराधने सज्जनाः प्रसजन्तु, प्रसजन्तु रेऽनुषजन्तु, भवजलनिधिमाशु तरन्तु, वियतां सुखदाम..... नैकानि तीर्थानि नु जीर्णानि, लोकैर्विस्मृतप्रायाणि, गुरुणा ह्यनुभूय दुःखानि, उद्धृतानि मुदा..... कदम्बगिरितीर्थोद्धतिरथ विहिता, प्रत्यूहसमूहं जित्वा, ग्रामीणान् विश्रम्भयित्वा, जाता जय-वाक्..... गुरुगुणसङ्कीर्तनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy