________________
अन्तिमा चतुर्मासी वार्धक्यस्य प्रभावः पूज्यस्य शरीरेऽप्यथ दृश्यमानमासीत् । स्वास्थ्यमपि प्रतिकूलमासीत् । अतो वर्धमान(वढवाण)पुरे बोटादनगरे च प्राणप्रतिष्ठादिकृत्यं सम्पन्नं कृत्वा विश्रान्त्यर्थं पूज्यः स्वकीये वल्लभे प्राणप्रिये च तीर्थे श्रीकदम्बगिरौ समागतः । 'अत्रैव चतुर्मासी निर्वास्या' इति पूज्यस्य मनोरथो जातः । शिष्यपरिवारः श्रावकवर्गश्चाऽपि पूज्यस्याऽभिलाषं समर्थितवान् । किन्तु क्षेत्रस्पर्शनं किञ्चिदन्यदेव निर्मितमासीत् ।
अत्र महुवानगरस्य श्रावकासङ्घो नगररेष्ठिश्रीहरिलालमहोदयसहित आगतः । चतुर्मास्यर्थं च विज्ञप्तवान् । नूतनस्य जिनालयद्वयस्य निर्माणकार्य सम्पन्नप्रायमासीत्, अतः प्रतिष्ठाऽपि कर्तव्याऽस्ति - इत्यपि निवेदितवान् । पूज्यस्य निषेधे सत्यपि यदा तेऽत्याग्रहं कृतवन्तस्तदा पूज्य उक्तवान् - 'नैषा प्रतिष्ठा ममोपस्थितौ भविष्यति । केवलं भवतामत्याग्रहेणैव चतुर्मास्यर्थमहमागमिष्यामि' इति । वि.सं. २००५तमवर्षं तदा प्रवर्तमानमासीत् ।
सशिष्यपरिवारः पूज्यो महुवानगरं प्राप्तवान् । पूज्यस्याऽऽगमनेन न केवलं जैनसङ्ग्रेऽपि तु समग्रेऽपि नगरे आनन्दतरङ्गा उच्छलन्त आसन् । शनैः शनैश्च दिनानि गच्छन्ति स्म । पर्युषणपर्वदिवसा आगताः । श्रावणामावास्याया दिनमासीत् । मध्याह्नकालानन्तरं सूर्यो यदा पश्चिमदिशि गच्छन्नासीत् तदा तस्य परितो वर्तुलं रचितम् । पूज्यो यत्राऽपवरके उपविष्ट आसीत् तत एतद् वर्तुलं स्पष्टतया दृश्यमानमासीत् । ज्योतिषशास्त्रानुसारेण ह्येतद् वर्तुलं दुभिक्षस्य कस्यचिद् महापुरुषस्य वियोगस्य वा सूचकमासीत् । अनन्तरं पर्युषणपर्वणोऽन्तिमे दिने सन्ध्याकाले सर्वेऽपि श्राद्धाः प्रतिक्रमणक्रियार्थं सज्जा आसन् । सर्वैरपि स्वस्थानं गृहीतमासीत् । तदा सहसैव निर्घोषः कश्चित् श्रुतः सर्वैः । उत्थाय यदा बहिर्दृष्टवन्तस्तदा प्राङ्गणस्थितस्य वटवृक्षस्य बृहती शाखैका निनिमित्तमेव त्रुटिताऽऽसीदिति दृष्टम् । एतदपि किञ्चिदशुभं सङ्केतयति स्म ।
पुनश्च भाद्रपदामावास्यादिने रात्रौ नववादनसमये विशालमेकं तारकं गगनात् पतितम् । नेत्रतेजःप्रतिघातिनी प्रभाऽपि तदा समुद्भूता । गोलकास्त्रस्येव प्रचण्डो घोषोऽपि जातः । एतादृशो घोषः शास्त्रे निर्घातशब्देन परिचीयते । 'पृथ्वीयं कस्यचिद् महापुरुषस्य वियोगं प्राप्स्यति' इत्येष सूचयन्नासीत् ।
प्रतिदिनं स्वास्थ्यप्रातिकूल्यं वर्धमानमासीत् । पूज्यउदयसूरिमहाराजः पूज्यनन्दनसूरिमहाराजश्च छायेव सततं पूज्यस्य समीप एव निवसतः स्म । दीपावलिपर्व निकटमासीदतः श्रीनन्दनसूरिमहाराज उक्तवान् – 'पूज्य ! परश्वो दीपावलिपर्व तदनन्तरं च भवतो जन्मदिवसः!' इति । तदा पूज्य उक्तवान् - 'नाऽहं दीपावलिपर्व पश्यामि' इति । एतच्छ्रुत्वा सर्वेऽपि गद्गदिता जाताः । मध्याह्ने च नन्दनसूरिमहाराजाय कतिचन सूचनाः प्रदत्तवान् पूज्यः ।
चित्रमयो विजयनेमिसूरिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org