SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ शत्रुञ्जयतीर्थे 'मुण्डका 'करोऽसहकारश्च पूर्वं हि पादलिप्तपुरे यात्रार्थमागतेभ्यो यात्रिकेभ्यो 'मुण्डका' ख्यः करो गृह्यमाण आसीत्। वि.सं. १९८२तमवर्षे करसम्बन्धी प्रश्नो विकटः सञ्जातः । आङ्ग्लसर्वकारेण तत्करग्रहणार्थं ठक्कुर श्रीमानसिंहस्य स्वसम्मतिः प्रदत्ताऽऽसीदतो भारतवर्षस्य सर्वेऽपि जैनसङ्घा विरोधं प्रकटितवन्तः । श्रेष्ठिआणंदजीकल्याणजी - संस्थाऽपि पूज्यस्य मार्गदर्शनमनुसृत्य प्रवृत्तिमारब्धवती । आवेदनपत्राणां प्रेषणमपि सर्वतः प्रारब्धम् । पूज्यस्य सान्निध्ये एका विशाला सभाऽप्यायोजिता - 'यावन्नैषाऽन्यायपूर्णा कुरीति: स्थगिता स्याद् न तावत् केनाऽपि शत्रुञ्जयतीर्थस्य यात्रा करणीया' - इति सर्वैरपि तत्रैकमत्येन निर्णय उद्घोषितः । निर्णयस्यैतस्य प्रवर्तनं ई. १९२६ तमवर्षस्य १ एप्रिलदिवसाज्जातम् । प्रत्येकं च जैनैरेष निर्णयो दृढं पालितः । सर्वत्र यात्रानिषेध उद्घोषितो जातः । ३१मार्चदिने तु पादलिप्तपुरं निर्जनमिव समभूत् । साधु-साध्वीमहाराजा अपि ततोऽन्यत्र विहृतवन्तः । 'नास्ति वंशः कुतो वंशीवादन' मिति न्यायाद् यात्रिकाणामभावे कस्य पुरतः करो ग्रहीतव्यः ? इति स्थितिः समुद्भूता । परिणामतः सर्वकारीयाधिकारिणा यात्रिकाणां गणनार्थं प्रदत्ता सम्मतिः, तदर्थं च ठक्कुरेण कल्पिता व्यवस्था, नियुक्ता अधिकारिणः, घटिता नियमाः - इत्यादिकं सर्वमपि निरर्थकं जातम् । करग्रहणार्थमुपविष्टा अधिकारिणोऽपि यात्रिकाणामभावे निर्विण्णा जाता: । पशुपक्षिणामपि गमनागमनं स्थगितं जातं यत्र तत्र यात्रिकाणां तु का कथा ? वर्षद्वयपर्यन्तं पूज्यस्याऽऽदेशेन मार्गदर्शनेन च समग्रोऽपि भारतीयजैनसङ्घ एतदसहकारान्दोलनं प्रावर्तयत् । पश्चादाङ्ग्लसर्वकारस्य माध्यस्थ्येन सङ्घस्य ठक्कुरस्य च मध्ये समाधानं जातम् । करग्रहणस्य निषेध उद्घोषितः । तत्पश्चादेव यात्रायाः पुनः प्रारम्भो जातः । एतादृशमासीत् पूज्यस्याऽऽधिपत्यम् । Jain Education International For Private & Personal Use Only चित्रमयो विजयनेमिसरि: | १२० www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy