________________
साधुजीवनस्य प्रथमं वर्षम् विघ्नस्य झञ्झावात उपशान्तो जातः । मुनिवरोऽपि चारित्रचर्याया आह्लादमनुभवति
स्म।
अद्यपर्यन्तं साधुत्वं कथं प्रापणीयमित्यस्य चिन्ताऽऽसीत्, अथ प्राप्तमिदं साधुत्वं सार्थकं सफलं वा यथा स्यात्तथा दृढं प्रयतितव्यमित्यस्ति तस्योल्लासः । साधुत्वप्राप्तिस्त्वस्य जन्मनः सार्थक्यं, किन्तु साधुत्वस्य सार्थक्यं कथङ्कारम् ? एतदर्थं च स पुरुषार्थस्य यज्ञमेव प्रारब्धवान् । ज्ञान-ध्यान-स्वाध्याय-विनयादिषु सोऽप्रमत्ततया सोल्लासं च लीनो जातः । पुरुषार्थस्य धारा तु प्रतिदिनं प्रवर्धमानाऽऽसीत् ।
यदा च स स्वाध्यायादिकार्येभ्यो निवृत्तो भवति स्म तदा 'प्रागजी दरबार' नामश्रावकाय नित्यं धर्ममुपदिशति स्म । एकदा गुरुवरः कार्यवशात् तद्दिश्यागतः । केचिच्छब्दाः श्रवणगोचरा जाताः । अतः 'कस्यैष ध्वनिः, किं च कथयति ?' इति जिज्ञासया स्वागमनमज्ञापयित्वा स एकपाधै उत्थितोऽभूत् । 'हं...नूतनोऽयं मुनिः श्रावकाय धर्ममुपदिशति' - इति ज्ञात्वा चित्ते प्रसत्तिमन्वभवत् । अस्मिश्च साहजिक्येव वक्तृत्वशक्तिर्विद्यते इति निरीक्षितवान् । मनसि च किमपि सङ्कल्प्य ततो निःशब्दमेवाऽपसृतः ।
अथ श्रीपर्युषणपर्वदिनान्यागतानि । चतुर्थदिनादारभ्य श्रीकल्पसूत्राभिधागमग्रन्थस्य व्याख्यानं सभासमक्षं करणीयमिति परम्पराऽस्ति । तद्दिने च मुनिश्रीचारित्रविजयेन सह सभायां गन्तुं गुरुभगवता सोऽप्यादिष्टः, उक्तश्च 'गृहाणैतद् वस्त्रम्, एतदेव परिधाय गच्छ' इति । गुरुभगवता स्वकीयं वस्त्रं प्रदत्तमासीत् । एतेन यद्यपि तस्याऽऽश्चर्यं तु जातमेव किन्तु गुर्वा व तदर्थं सर्वोपर्यासीत् । व्याख्यानकालेऽपि मुख्यपीठ एवोपवेष्टुं मुनिना स आदिष्टः । अथाऽऽश्चर्यमितोऽप्यवर्धत । स्वल्पं च व्याख्यानं कृत्वा मुनिवरो नूतनमुनिराजस्याऽस्य हस्ते प्रति दत्त्वा- 'गुरुभगवत इयमाज्ञाऽस्ति यच्छेषं व्याख्यानं भवता करणीयम्' इति चोक्त्वा त्वरितमेव व्यासपीठादुत्तरितवान् । अनेन मुनिवरो ज्ञातवान् यत् किमर्थमेवं गुरुभगवताऽद्याऽऽचरितमिति ।
मनसैव गुरुभगवन्तं स्मृत्वा नत्वा हृदि च निधाय व्याख्यानं प्रारब्धवान् । तस्याऽस्खलिते धाराप्रवाहिते व्याख्यानप्रवाहे समग्राऽपि सभा प्रवहन्त्यासीत् । सर्वेऽपि साश्चर्यं शिरो विधूनयन्त आसन् । यावद् व्याख्यानं समाप्तं तावत् सर्वेऽपि सम्मोहिता इवैवोपविष्टा आसन् । सर्वेऽप्यतीव प्रसन्ना जाता । गुरुभगवतस्तु का वार्ता ? स तु स्वप्रियशिष्योपरि हार्दिकमाशीर्वादं वर्षन् मेघ इवोपलक्ष्यमाण आसीत् । अद्य तस्य विश्वासः सार्थको जातः किल !
एवं च प्रथमायामेव चतुर्मास्यां संस्कृतभाषामाध्यमेन मुनिवरः कल्पसूत्रं व्याख्यातवान् ।
चित्रमयो विजयनेमिसूरिः | ९१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org